पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९९

एतत् पृष्ठम् परिष्कृतम् अस्ति


शयेन हन्ति गच्छतीति वृत्रहन्तमः । एवमेव व्याख्येयम् । येनैवं पदकारः पदं चक्रे । वृत्रहन्तममिति मकारान्तावग्रहणम् । अथ कोर्थः । पाप्मानं प्रति अतिशयेन हन्तारं साम गायतीति । येन साम्ना ज्योतिः अजनयन् । ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । इन्द्रस्य । यद्वा । ऋतावृधो देवाः । कथंभूतं ज्योतिरजनयन् । देवं दातृ । देवाय इन्द्राय दातुः । जागृवि जागरणशीलं स्वाधिकारावहितचित्तम् ॥ ३०॥
म० 'ऐन्द्र्यां बृहत्यां गायति' (का० १९ । ५। २)। अध्वर्युप्रेषितो ब्रह्मा इन्द्रदेवतायां बृहत्यां साम गायति । इन्द्रदेवत्या बृहती नृमेधपुरुषमेधदृष्टा । हे मरुतः ऋत्विजः, इन्द्राय इन्द्रार्थं यूयं बृहत्साम गायत सामगानं कुरुत। कीदृशम् । बृहत् वृत्रहन्तमम् वृत्रं पापं प्रति अतिशयेन हन्ति गच्छति वृत्रमसुरं नाशयति वा । 'नाद्धस्य' (पा० ८।२। १७) इति नुम् । ऋतं यज्ञं वर्धयन्ति ऋतवृधः देवा ऋत्विजो वा । येन सामगानेन देवाय इन्द्राय ज्योतिः तेजः अजनयन्नुदपादयन् । कीदृशं ज्योतिः । देवं दीप्यमानम् । जागृवि जागर्तीति जागृवि जागरणशीलम् । अविनश्वरमित्यर्थः । सामगानेनेन्द्रस्तेजस्वी जात इत्यर्थः ॥ ३० ॥

एकत्रिंशी।
अध्व॑र्यो॒ अद्रि॑भिः सु॒तᳪ सोमं॑ प॒वित्र॒ आ न॑य । पु॒ना॒हीन्द्रा॑य॒ पात॑वे ।। ३१ ।।
उ० ब्रह्मानुमन्त्रणम् । अध्वर्यो अद्रिभिः। ऐन्द्री गायत्री। हे अध्वर्यो, अद्रिभिः ग्रावभिः सुतमभिषुतं सोमम् पवित्रे आनय आसिञ्च । ततः पुनाहि पुनीहि । इन्द्राय इन्द्रस्य । पातवे पानार्थम् ॥ ३१ ॥
म० 'ब्रह्मानुमन्त्रणमध्वर्यो अद्रिभिरिति' ( का० १९ । २। ११)। ब्रह्मा पयोऽनुमन्त्रयते । ऐन्द्री गायत्री । हे अध्वर्यो, त्वं सोमं पवित्रे कम्बलमये आनय सिञ्च । कीदृशम् । अद्रिभिर्ग्रावभिः सुतमभिषुतम् । ततः पुनाहि पुनीहि गालय । इत्वाभाव आर्षः। किमर्थम् । इन्द्राय पातवे इन्द्रस्य पानार्थम् । तुमर्थे तवेप्रत्ययः ॥ ३१ ॥

द्वात्रिंशी।
यो भू॒ताना॒मधि॑पति॒र्यस्मिँ॑ल्लो॒का अधि॑ श्रि॒ताः ।
य ईशे॑ मह॒तो म॒हाँस्तेन॑ गृह्णामि॒ त्वाम॒हं मयि॑ गृह्णामि॒ त्वाम॒हम् ।। ३२ ।।
उ० त्रयस्त्रिंशं वसाग्रहं गृह्णाति । यो भूतानां पङ्क्तिः । सोमप्रवादः । यो भूतानां चतुःप्रकाराणाम् अधिपतिः । यस्मिंश्च लोका अधि उपरि श्रिताः स्थिताः । यश्च ईशे महतः विकारजातस्य । स्वयं च महान् । तेन गृह्णामि त्वाम् अहम् ॥ ३२॥
म० 'त्रयस्त्रिᳪशं वसाग्रहं गृह्णाति यो भूतानामिति' (का. १९ । ४ । २४)। 'प्रागभिषेकात्सीसेन तन्त्रमिति' । (१९ । ८०) षोडशर्ग्भिर्द्वात्रिंशद्वसाग्रहाः तेषां संस्रवैर्यजमानाभिषेकः कृतः । ततोऽध्वर्युर्यो भूतानामिति सार्धकण्डिकात्मकेन मन्त्रेण त्रयस्त्रिंशं वसाग्रहमार्षभखुरेण गृह्णाति । आत्मवादिनीग्रहदेवत्या कौण्डिन्यदृष्टा पङ्क्तिः । यः परमात्मा भूतानां जराय्वादिभूतानां चतुर्विधानामधिपतिः अधिकं पालकः । यस्मिन् आत्मनि लोका भूरादयोऽधिश्रिताः आश्रिताः । लोका यदाधारा इत्यर्थः । महान् सर्वोत्कृष्टो यः महतः महत्तत्वप्रमुखस्य तत्त्वगणस्य ईशे ईष्टे नियन्ता वर्तते 'लोपस्त आत्मनेपदेषु' (पा. ७ । १ । ४१ ) इति तलोपे लटि तङि प्रथमैकवचने ईशे इति रूपम् । 'अधीगर्थदयेशाम्' (पा० २ । ३ । ५२) इति कर्मणि षष्ठी । हे ग्रह, अहं तेन परमात्मना कृत्वा त्वा त्वां गृह्णामि मयि परमात्मभावमापन्ने मयि विषये अहं त्वां गृह्णामि ॥ ३२ ॥
 
त्रयस्त्रिंशी।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ ए॒ष ते॒ योनि॑र॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ।। ३३ ।।
उ० उपयाम गृहीतोऽसीति व्याख्यातम् ॥ ३३ ॥
म० उपयाम० यजुः सामत्रिष्टुप् । व्याख्यातम् (अ० १० । क. २३ ) एष ते यजुः प्राजापत्या बृहती । सादने विनियोगः। ग्रहदेवते द्वे यजुषी।।३३।।

चतुस्त्रिंशी।
प्रा॒ण॒पा मे॑ अपान॒पाश्च॑क्षु॒ष्पाः श्रो॑त्र॒पाश्च॑ मे ।
वाचो॑ मे वि॒श्वभे॑षजो॒ मन॑सोऽसि वि॒लाय॑कः ।। ३४ ।।
उ० ऋत्विजः प्राणभक्षं भक्षयन्ति । प्राणपा इति द्वाभ्यामनुष्टुबुपरिष्टाद्बृहतीभ्यां प्राणादिपरिचयाय । यस्त्वं प्राणपाः मम असि अपानपाश्चक्षुष्पाश्च श्रोत्रपाश्च मे। वाचश्च मे विश्वभेषजः सर्वभेषजकारी । मनसश्चासि विलायकः । 'लीङ् श्लेषणे' सर्वकरणेषु संश्लेषकः ॥ ३४ ॥
म० शेषमृत्विजः प्राणभक्षं भक्षयन्ति' ( का० १९ । ५।९)। सहश(?)ग्रहहोमानन्तरं शेषमृत्विजः सर्वेऽवजिघ्रन्ति कण्डिकाद्वयेन । ग्रहदेवत्ये द्वे अनुष्टुबुपरिष्टाद्बृहत्यौ । हे ग्रह, त्वं मे प्राणपा असि । प्राणान् पाति रक्षति प्राणपाः । अपानपाः अपानस्य रक्षकोऽसि । चक्षुषी पातीति चक्षुष्पाः । मे मम श्रोत्रपाश्चासि श्रोत्रेन्द्रियं पासि । मे वाचो वागिन्द्रियस्य विश्वभेषजः विश्वं सर्वं भेषजमौषधं यस्मात्स वाचः औषधमुन्मार्गनिवृत्तिर्जपादौ प्रवृत्तिश्च तत्कर्ता । मनसो विलायकश्चासि विलाययति विषयेभ्यो निवर्त्यात्मनि स्थापयतीति विलायकः आत्मज्ञानप्रदोऽसीत्यर्थः । यद्वा 'ली श्लेषणे' विलाययति