पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

भिरेतत्स्वादितव्यमिति चरन्ति संचरन्ति । किंच परापुरः पराक्रान्ताः पुरः परापुरः शरीराणि महान्तीति । निपुरः निकृष्टाः पुरो निपुरः सूक्ष्माणि शरीराणि ये भरन्ति बिभ्रति धारयन्ति अग्निस्तानसुरान् लोकात् स्थानात् प्रणुदाति प्रणुदतु प्रेरयतु । अस्मात्पितृलोकात् ॥ ३०॥
म० 'उल्मुकं परस्तात्करोति ये रूपाणीति' ( का० ४ ।। १।९) इयं त्रिष्टुप् कव्यवाहनाग्निदेवत्या । स्वधया पैतृकान्नेन निमित्तेन पितॄणामन्नमस्माभिर्भक्षणीयमिति हेतोः स्वीयरूपाणि प्रतिमुञ्चमानाः पितृसमानरूपाणि स्वीकुर्वन्तः सन्तो ये असुरा देवविरोधिनश्चरन्ति पितृयज्ञस्थाने प्रसरन्ति । तथा ये असुराः परापुरः निपुरश्च भरन्ति । पराक्रान्ताः पुरः परापुरः स्थूलदेहान् । निकृष्टाः पुरः निपुरः सूक्ष्मदेहान् ये धारयन्ति । स्वमसुरत्वं प्रच्छादयितुं ये स्थूलसूक्ष्मशरीराणि बिभ्रति । अग्निरुल्मुकरूपः अस्माल्लोकात् पितृयज्ञस्थानात्तानसुरान् प्रणुदाति प्रणुदतु प्रेरयतु । प्रकर्षेणापसारयत्वित्यर्थः ॥ ३० ॥

एकत्रिंशी।
अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम् । अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ।। ३१।।
उ० उदङास्ते अत्र पितरः । बृहती। अत्र अस्मिन्बर्हिषि हे पितरः, मादयध्वं मोदध्वम् । किंच यथाभागं यो यस्य भागः तं यथाभागम् । आवृषायध्वम् । आङ्पूर्वाद्वृषशब्दात् 'कर्तुः क्यङ् सलोपश्च' इति क्यङ् । वृष इव स्वेच्छया महद्भिर्ग्रासैरेतान्पिण्डानश्नीत । आवृत्यामीमदन्तेति जपति । अमीमदन्त हर्षं प्राप्तवन्तः पितरो यथाविभागं च आवृषायिषत अशितवन्तः । 'यथाभागमाशिषुरित्येवैतदाह' इति श्रुतिः ॥ ३१ ॥
म० 'अत्र पितर इत्युक्त्वोदङ्ङास्त आ तमनादावृत्यामीमदन्तेति जपतीति' ( का० ४ । १।१३-१४ )। आ तमनात् श्वासनिरोधेन ग्लानिपर्यन्तमुदङ्मुख आस्त इति सूत्रार्थः । हे पितरः, यूयमत्रास्मिन् बर्हिषि मादयध्वं हृष्टा भवत । ततो हविषि यथाभागं स्वं स्वं भागमनतिक्रम्य आवृषायध्वं समन्ताद्वृषवदाचरत । यथा वृषः स्वाभीष्टं घासं प्राप्य तृप्तिपर्यन्तं स्वीकरोति तद्वत्स्वीकुरुत । आङ्पूर्वाद्वृषशब्दात् 'कर्तुः क्यङ् सलोपश्च' (पा० ३।१।११) इति क्यङ् ततो लोट् । पितरः अमीमदन्त । यान् पितॄन् प्रति मादयध्वमित्युक्तं ते पितरोऽमीमदन्त हृष्टाः यथाभागमावृषायिषत स्वं भागमनतिक्रम्य वृषवत् स्वीचक्रुः । लुङि रूपम् । 'यथाभागमाशिषुरित्येवैतदाह' ( २ । ४ । २ । २२) इति श्रुतिः। स्वं भागं जक्षुरित्यर्थः ॥ ३१॥

द्वात्रिंशी।
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितर॒: शोषा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो घो॒राय॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितर॒: पित॑रो॒ नमो॑ वो गृ॒हान्न॑: पितरो दत्त स॒तो व॑: पितरो देष्मै॒तद्व॑: पितरो॒ वास॒ आध॑त्त ।। ३२।।
उ० नमो व इत्यञ्जलिं करोति । षट्कृत्वा नमस्करोति । 'षड्वा ऋतवः पितरः' इति श्रुतिः । व्याख्यातम् । 'नमो वः पितरो रसाय' हे पितरः, वः युष्माकं संबन्धिने रसाय रसभूताय वसन्ताय नमः । वसन्ते हि मध्वादयो रसाः संभवन्तीत्यत एवं नमस्क्रियते । एवं वक्ष्यमाणा अपि मन्त्रा व्याख्येयाः । शोषाय शोषप्रभावाय ग्रीष्माय नमः । शुष्यन्ति हि ग्रीष्मे ओषधयः । जीवाय जीवनहेतुभूताय वर्षाभ्यो नमः । स्वधायै स्वाहा वै शरत् स्वधा वै पितॄणामन्नम्' इति श्रुतिः । शरदि हि प्रायशोऽन्नानि भवन्ति । घोराय विषमाय । विषमो हि हेमन्तः प्राणिनां शीतप्रचुरत्वात् । मन्यवे । मन्युः क्रोधः । क्रोध इव हि शिशिर ओषधीर्दहति । नमो वः पितरः पितरो नमो वः । अभ्यासे भूयांसमर्थं मन्यन्ते । गृहान्नः पितरो दत्त । भार्यापुत्रपौत्रादयो गृहा उच्यन्ते । गृहान्नः अस्मभ्यं हे पितरः, दत्त । किंच तथा युष्मत्प्रमोदादस्माकं भवतु । यथा नः गृहे सतो विद्यमानान् द्रव्यान् वो युष्मभ्यं दद्मः । सूत्राणि ददाति । हे पितरः, एतद्वा युष्माकं वासः परिधानम् ॥ ३२ ॥
म० 'नमो व इत्यञ्जलिं करोतीति' ( का० ४।१।१५)। षट्कृत्वो नमस्करोति । 'षड्वा ऋतवः पितरः' इति श्रुतेः । रसादिशब्देन वसन्तादिषडृतव उच्यन्ते । ते च पितॄणां स्वरूपभूताः अतस्तेभ्यो नमस्करोति । हे पितरः, वो युष्माकं संबन्धिने रसाय रसभूताय वसन्ताय नमः । यतो मध्वादयो रसा वृक्षेषु जायन्तेऽतो रसशब्देन वसन्तः । युष्मद्रूपाय वसन्ताय नम इत्यर्थः । एवमग्रेतना मन्त्रा व्याख्येयाः । शोषाय । शुष्यन्त्योषधयो यत्रेति शोषो ग्रीष्मः । जीवाय जीवनहेतुभूताय जलाय वर्षर्तवे । स्वधायै शरदे । 'स्वधा वै शरत् स्वधा वै पितृणामन्नं' इति श्रुतेः । शरदि हि प्रायशोऽन्नानि भवन्ति । घोराय विषमाय हेमन्ताय । हेमन्तः शीतप्रचुरत्वेन दुःखदत्वात् घोरः । मन्यवे मन्युः क्रोधस्तद्रूपाय शिशिराय । शिशिरस्तु सर्वोषधीर्दहति । हे पितरः, एवंविधऋतुरूपेभ्यो वो युष्मभ्यं नमः। हे पितरः, वो नम इत्यभ्यास आदरातिशयार्थः । हे पितरः, नोऽस्मभ्यं गृहान् दत्त । भार्यापुत्रपौत्रादयो गृहाः। हे पितरः, वो युष्मभ्यं सतः