पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

म० श्रुतिरूपमन्त्रा आश्वमेधिकानां पशूनां देवतासंबन्धविधायिनोऽध्यायेनोच्यन्ते । तत्राश्वमेधे एकविंशतिर्यूपाः सन्ति तत्र मध्यमो यूपोऽग्निष्ठसंज्ञः तत्र सप्तदश पशवो नियोजनीयाः । तान् देवतासंबन्धकथनपूर्वकमाह । अश्वस्तूपरोगोमृगस्ते प्राजापत्याः । अश्वः तूपरः शृङ्गोत्पत्तिकालेऽतीतेऽपि शृङ्गहीनः गोमृगः गवयः एते प्रजापतिदैवत्याः । ततः प्रजापतये जुष्टं नियुनज्मीति मन्त्रेण बन्धनीयाः । एवमग्रेऽपि यो यद्दैवत्यः पशुः सः अमुष्मै जुष्टं नियुनज्मीत्यादिमन्त्रैर्बन्धनीयः । आग्नेयोऽग्निदैवतः कृष्णग्रीवः श्यामवर्णगलोऽजः अश्वस्य पुरस्तात् ललाटे उपनये बन्धनीयः । हन्वोरधस्तात्सारस्वती मेषो बन्धनीयः। आश्विनावधोरामौ अधोभागे शुक्लवर्णावजौ बाह्वोः अश्वस्य पूर्वपादयोरेकैकः । सोमपूषदेवत्यः श्यामः शुक्लकृष्णरोमाजोऽश्वस्य नाभ्यां । श्वेतः कृष्णश्च सौर्ययामौ श्वेतः पशुः सूर्यदेवतो दक्षिणपार्श्वे । यमदैवतः कृष्णोऽश्ववामपार्श्वे । त्वाष्ट्रौ त्वष्टृदेवतौ लोमशसक्थौ बहुरोमपुच्छिकौ पशू अश्वस्य सक्थ्योरूर्वोः पश्चात्पदयोरेकैकः । वायव्यः श्वेतवर्णः पशुरश्वस्य पुच्छे । स्वपस्याय शोभनकर्मणे इन्द्राय स्वपस्येन्द्रदेवता वेहत् गर्भघातिनी वैष्णवो वामनः पशुश्च पुच्छ एव अङ्गान्तरानुक्तेः । एवमश्वादिभिः सह पञ्चदश भवन्ति । एते पर्यङ्ग्या उच्यन्ते । अत्राश्वस्य शरीरं तरणाय तुंबीफलवद्रज्जुं बद्ध्वा गुम्फनीयम् । ततः कृष्णग्रीवः आग्नेयो रराट इत्यादयोऽश्वस्य शरीरे यथोक्तस्थाने संबद्धायां रज्ज्वां बन्धनीयाः । ततो रोहितो धूम्ररोहित इत्यादयो द्वादशसंख्याकाः शितिबाहुरन्यतः । शितिबाहुः समन्तशितिबाहुस्ते बार्हस्पत्या इत्यन्ता मध्यमे एव यूपे नियोज्याः । 'सप्तदशैव पशून्मध्यमे यूप आलभते' (१३ । ५ । १ । १५) इति श्रुतेः । तत्र त्रयोऽश्वतूपरगोमृगाः द्वौ चाग्नेयावेकादशिनौ द्वादश रोहितादयः एवं सप्तदश मध्यमे यूपे । ततः पृषती क्षुद्रपृषतीत्यादीनां श्वेताः सौर्या इत्यन्तानां (१९) शतत्रयसंख्याकानां पशूनां मध्ये पञ्चदश पञ्चदश पशूनेकैकस्मिन्यूपे युनक्ति । एवमितरेषु यूपेषु पञ्चदश पञ्चदशैते पशवः एकैकश्चैकादशिनः । एवं मध्ययूपव्यतिरिक्तेषु विंशतियूपेषु षोडश षोडश पशवो भवन्ति 'षोडशषोडशेतरेषु' (१२ । ५ । १।१५) इति श्रवणात् ॥ १॥

द्वितीया ।
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रु॒: शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यत॑: शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यत॑: शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्रावरु॒ण्य॒: ।। २ ।।
उ० रोहितो धूम्र रोहित इत्यादयः श्वेता वायव्याः श्वेताः सौर्या इत्येवमन्तः । इतरेषु यूपेषु रोहितादिषु ये गुणवचनाः शब्दास्ते गुणिनं पशुं लक्षयन्ति ॥ २॥
म० रोहितः सर्वरक्तः धूम्ररोहितः धूम्रवर्णमिश्रो रक्तः तृतीयः कर्कन्धुरोहितः बदरसदृशरक्तः ते त्रयः सौम्याः सोमदैवत्याः सोमाय जुष्टं नियुनज्मीत्यादिमन्त्रेण प्रत्येकं मध्यमे यूप एव नियोज्याः। ततो बभ्रुः कपिलवर्णः अरुणबभ्रुः अरुणवर्णमिश्रः कपिलः शुकबभ्रुः शुकपक्षिसमवर्णः कपिलश्च ते त्रयो वारुणाः वरुणदेवत्याः मध्यमयूप एव । शिति कृष्णं रन्ध्रं छिद्रं यस्य स शितिरन्ध्रः । अन्यत इत्येकपार्श्वे शितिरन्ध्रः समन्तं सर्वतः शितिरन्ध्रः एते सारस्वताः मध्यमे एव । शितिबाहुः श्वेतपूर्वपादः अन्यतः शितिबाहुः एकस्मिन्नेव पार्श्वे शितिपादः समन्तशितिबाहुः सर्वश्वेतबाहुः 'शिती धवलमेचकौ' एते बार्हस्पत्याः बृहस्पतिदैवत्याः मध्यमे एव । अथ द्वितीययूपे । पृषती विचित्रवर्णबिन्दुयुक्तशरीरा क्षुद्रपृषती सूक्ष्म विचित्रबिन्दुयुक्ता स्थूलपृषती स्थूलविचित्रबिन्दुयुक्ता एते स्त्रीपशवो मित्रावरुणदेवताः द्वितीये यूपे नियोज्याः ॥ २ ॥

तृतीया ।
शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्त आ॑श्वि॒नाः श्येत॑: श्येता॒क्षो॒ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒मा अ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः ।। ३ ।।
उ० महीधरोक्तमर्थं विलिखामि । शुद्धवालः शुभ्रवालः सर्वशुद्धवालः मणिशुद्धवालः मणिवर्णकेशः ते त्रयः अश्विदैवत्याः द्वितीये । श्येतः श्वेतवर्णः श्येताक्षः श्वेतनेत्रः अरुणः रक्तः ते त्रयो रुद्राय पशुपतये पशुपतिरुद्रदैवता द्वितीये । कर्णास्त्रयः पशुविशेषाः 'कर्णश्चन्द्रे च वृक्षे च' इति विश्वोक्तेः। कर्णाश्चन्द्रसदृशश्वेतकर्णास्त्रयः पशवः । बहुवचनस्य त्रित्वे पर्यवसानात् । यामाः यमदैवताः द्वितीये । अवलिप्ताः सगर्वास्त्रियो रौद्राः । एते द्वितीये पञ्चदश । अथ तृतीये यूपे । नभोरूपाः आकाशवन्नीलवर्णाः पार्जन्याः पर्जन्यदैवताः पशवस्तृतीये नियोज्याः ॥ ३॥
म० शुद्धवालः शुभ्रवालः सर्वशुद्धवालः मणिशुद्धवाल: मणिवर्णकेशः ते त्रयः अश्विदेवत्याः द्वितीये । श्येतः श्वेतवर्णः श्येताक्षः श्वेतनेत्रः अरुणः रक्तः ते त्रयो रुद्राय पशुपतये पशुपतिरुद्रदेवता द्वितीये । कर्णास्त्रयः पशुविशेषाः 'कर्णश्चन्द्रे च वृक्षे च' इति विश्वोक्तेः । कर्णाश्चन्द्रसदृशश्वेतकर्णास्त्रयः पशवः । बहुवचनस्य त्रित्वे पर्यवसानात् । यामाः यमदैवताः द्वितीये । अवलिप्ताः सगर्वास्त्रयो रौद्राः । एते द्वितीये पञ्चदश । । अथ तृतीययूपे । नभोरूपाः आकाशवन्नीलवर्णाः पार्जन्याः पर्जन्यदेवताः पशवः तृतीये नियोज्याः ॥ ३ ॥

चतुर्थी।
पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्य॒: प्लीहा॒कर्ण॑: शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्त ऐ॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जिर्म॒हाञ्जि॒स्त उ॑ष॒स्या॑: ।। ४ ।।