पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

सेचनसमर्था युवानस्त्रयः बृहत्यै द्वा० । अथ त्रयोदशे यूपे । ऋषभाः उक्ष्णोऽप्यधिकवयस्काः त्रयः ककुभे त्रयोदशे। अनड्वाहः शकटवहनसमर्था अजास्त्रयः पङ्क्यैउक त्रयो० । धेनवः नवप्रसूता अजास्तिस्रः अतिच्छन्दसे त्रयो० ॥ १३ ॥
म० पष्ठवाहः चतुःसंवत्सरास्त्रयो विराजे द्वा० । उक्षाणः सेचनसमर्था युवानस्त्रयः बृहत्यै द्वा० । अथ त्रयोदशे यूपे ऋषभाः उक्ष्णोऽप्यधिकवयस्काः त्रयः ककुभे त्रयोदशे । अनड्वाहः शकटवहनसमर्था अजास्त्रयः पङ्क्त्यै त्रयो० । धेनवः नवप्रसूता अजास्तिस्रः अतिच्छन्दसे त्रयो० ॥ १३ ॥

चतुर्दशी।
कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्या उ॑पध्व॒स्ताः सा॑वि॒त्रा व॑त्सत॒र्य॒: सारस्व॒त्य॒: श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीया॑: ।। १ ४ ।।
उ० अथ चातुर्मास्यदेवाः पशवः श्वेताः सौर्या इत्यन्ताः। तत्र प्रथमं वैश्वदेवपर्वपशव उच्यन्ते । कृष्णग्रीवाः त्रयः आग्नेयाः त्रयः बभ्रवः कपिलास्त्रयः सौम्याः । अथ चतुर्दशे यूपे । उपध्वस्ताः उपध्वंसनमधःपतनं तद्गुणविशिष्टा वर्णान्तरमिश्रिता वा त्रयः सवितृदेवताः चतु० । वत्सतर्यः तिस्रः सरस्वतीदेवताः चतु० । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवत्याः चतु० । पृश्नयः तनुकाया विचित्रवर्णा वा त्रयो मरुद्देवताः चतु० । बहुरूपास्त्रयो वैश्वदेवाः चतु० । अथ पञ्चदशे । वशाः वन्ध्यास्तिस्रो द्यावापृथिवीयाः द्यावापृथिवीदेवत्याः पञ्च० ॥ १४ ॥
म० अथ चातुर्मास्यदेवाः पशवः श्वेताः सौर्या इत्यन्ताः । तत्र प्रथमं वैश्वदेवपर्वपशव उच्यन्ते । कृष्णग्रीवाः त्रयः आग्नेयाः त्रयो० । बभ्रवः कपिलास्त्रयः सौम्याः । अथ चतुर्दशे यूपे । उपध्वस्ताः उपध्वंसनमधःपतनं तद्गुणविशिष्टा वर्णान्तरमिश्रिता वा त्रयः सवितृदेवताः चतु० । वत्सतर्यः तिस्रः सरस्वतीदेवताः चतु० । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवत्याः चतु० । पृश्नयः तनुकाया विचित्रवर्णा वा त्रयो मरुद्देवताः चतु० । बहुरूपास्त्रयो वैश्वदेवाः चतु० । अथ पञ्चदशे । वशाः वन्ध्यास्तिस्रो द्यावापृथिवीयाः द्यावापृथिवीदेवत्याः पञ्च० ॥ १४ ॥

पञ्चदशी ।
उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः कृ॒ष्णाः वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः ।। १५ ।।
उ० अथ वरुणप्रघासपर्वपशव उच्यन्ते । संचरशब्देन कृष्णग्रीवा आग्नेया इत्यादयः पूर्वकण्डिकोक्ताः पञ्चदश पशव उच्यन्ते । पञ्च संचराणि हवींषि भवन्तीतिवत् यथा चातुर्मास्येषु चतुर्ष्वपि पर्वसु आग्नेयादीनि पञ्च हवींषि समानानि एवमत्रापि चतुर्णां पर्वणां संबन्धिनामाद्यानां पञ्चानां देवानामाद्या एते पञ्चदश पशवः समाना एव भवन्ति । तेन संचरा उक्ताः । आग्नेयादयः पञ्चदश पशव उक्ता इत्यर्थः । आग्नेयाः कृष्णग्रीवास्त्रयः पञ्चदशे । सौम्याः बभ्रवस्त्रयः पञ्च० । सावित्रा उपध्वस्ताः त्रयः पञ्च० । सारस्वत्यः वत्सतर्यः तिस्रः पञ्च० । अथ षोडशे । पौष्णाः श्यामाः त्रयः षोडशे । एते संचरा उक्ताः । एताः कर्बुरास्त्रय ऐन्द्राग्नाः इन्द्राग्निदेवताः षो० । कृष्णाः कृष्णवर्णास्त्रयो वारुणाः वरुणदेवताः षो० । पृश्नयः तनुशरीरास्त्रयः मारुताः षो० । त्रयः तूपराः निःशृङ्गाः कायाः कदेवताः षो० ॥ १५ ॥
म० अथ वरुणप्रघासपर्वपशव उच्यन्ते । संचरशब्देन कृष्णग्रीवा आग्नेया इत्यादयः पूर्वकण्डिकोक्ताः पञ्चदश पशव उच्यन्ते । पञ्च संचराणि हवींषि भवन्तीतिवत् । यथा चातुमास्येषु चतुर्ष्वपि पर्वसु आग्नेयादीनि पञ्च हवींषि समानानि एवमत्रापि चतुर्णां पर्वणां संबन्धिनाम् आद्यानां पञ्चानां देवानामाद्या एते पञ्चदश पशवः समाना एव भवन्ति । तेन संचरा उक्ताः । आग्नेयादयः पञ्चदश पशव उक्ता इत्यर्थः । आग्नेयाः कृष्णग्रीवास्त्रयः पञ्चदशे । सौम्याः बभ्रवस्त्रयः पञ्च० । सावित्रा उपध्वस्ताः त्रयः पञ्च० । सारस्वत्यः वत्सतर्यः तिस्रः पञ्च० । अथ षोडशे । पौष्णाः श्यामाः त्रयः षोडशे । एते संचरा उक्ताः । एताः कर्बुरास्त्रय ऐन्द्राग्ना इन्द्राग्निदेवताः षो० । कृष्णाः कृष्णवर्णास्त्रयो वारुणाः वरुणदेवताः षो० । पृश्नयः तनुशरीरास्त्रयः मारुताः षो० । त्रयः तूपराः निःशृङ्गाः कायाः कदेवताः षो० ॥ १५ ॥

षोडशी।
अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्य॑: सान्तप॒नेभ्य॑: सवा॒त्यान्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान्म॒रुद्भ्य॑: क्री॒डिभ्य॑: सᳪसृ॒ष्टान्म॒रुद्भ्य॒: स्वत॑वद्भ्योऽनुसृ॒ष्टान् ।। १ ६ ।।
उ० अथ सप्तदशे । अथ साकमेधपशवः । प्रथमगर्भे जातान् त्रीन् अजान् अनीकवते अनीकवद्गुणविशिष्टायाग्नये । आलभते नियुनक्ति सप्त० । वातसमूहो वात्या तया सह वर्तन्त इति सवात्याः वातमण्डलीमध्यस्थान् त्रीनजान् सांतपनेभ्यः मरुद्भ्यः सप्त । बष्किहान् चिरप्रसूतान्त्रीन्गृहमेधिभ्यो मरुद्भ्यः सप्त० । संसृष्टान् सह सृष्टान् त्रीन् क्रीडिभ्यो मरुद्भ्यः सप्त० । अनुसृष्टान् अनुक्रमेण जातान् त्रीन् स्वतवद्भ्यो मरुद्भ्यः सप्त० ॥ १६ ॥
म० अथ सप्तदशे । अथ साकमेधपशवः । प्रथमजान् मात्रा प्रथमगर्भे जातान् त्रीन् अजान् अनीकवते अनीकवद्गुणविशिष्टायाग्नये आलभते नियुनक्ति सप्त० । वातसमूहो वात्या तया सह वर्तन्त इति सवात्याः वातमण्डलीमध्यस्थां