पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० शादं दद्भिः । इयमपि श्रुतिर्देवताश्वाङ्गयोश्चोदनां विदधाति । शादो देवताविशेषः दन्ता अश्वाङ्गम् । शादं दद्भिः प्रीणाति देवता भोक्त्री द्वितीयया निर्दिश्यते । अश्वाङ्गं भोग्यं तृतीयया करणविभक्त्या निर्दिश्यते । एवं हि विभक्त्योः सामर्थ्यं भवति । युक्तंच होमकाले अङ्गाभिधानं देवतायै होमः । आहच श्रुतिः । 'आज्यमवदानीकृत्वा प्रत्याख्यायम् देवताभ्य आहुतीर्जुहोतीति दद्भिः शादाय स्वाहा । दन्तमूलैरवकाय स्वाहा' इत्येवं प्रयोगाः । क्वचिच्च देवता केवला भवति यथा शुक्लायस्वाहा कृष्णायस्वाहेति । क्वचिच्चान्यया विभक्त्या निर्देशो द्रव्यदैवतयोः यथा अग्नेः पक्षतिर्वायोर्निपक्षतिरिति । एवं द्रव्यदैवतमप्रसिद्धं यज्ञपार्श्वादिभ्योऽवगन्तव्यमिति पृथिवीं त्वचेति यावत् ॥ १॥
प्रणम्य कमलानाथं गणेशं गिरिजां गिरम् ।
पञ्चविंशेऽयमध्याये वेददीपो मयेर्यते ॥
म० 'स्विष्टकृद्वनस्पत्यन्तरे शूल्यᳪ हुत्वा देवताश्वाङ्गेभ्यो जुहोत्यमुष्यै स्वाहेति प्रतिदेवतᳪ शादप्रभृतित्वगन्तेभ्योऽविमुखाच्च परेभ्य इति' ( का० २० । ८ । ५। ६) । स्विष्टकृद्वनस्पत्योरन्तरे वनस्पतियागानन्तरं स्विष्टकृद्यागात्पूर्वं शूले श्रपितं मांसं प्राजापत्योऽश्व इति वचनात्प्रजापतये हुत्वा अमुष्मै स्वाहेति प्रतिदेवतं शादादित्वगन्तेभ्यो देवताश्वाङ्गेभ्यो देवताभ्योऽश्वाङ्गेभ्यश्च घृतं जुहुयात् । अनादेशे घृतस्योक्तवात् । तत्र शादं दद्भिरित्यादि पृथिवीं त्वचेत्यन्तः संहिताभागो ब्राह्मणं न मन्त्राः। शादादयो देवाः दन्ताद्यङ्गानि । ततश्चतुर्गृहीतमाज्यं गृहीत्वा शादाय स्वाहा दद्भ्यः स्वाहा अवकाभ्यः स्वाहा दन्तमूलेभ्यः स्वाहेत्यादि पृथिव्यै स्वाहा त्वचे स्वाहेत्यन्तं जुहुयादित्येकः पक्षः शाखान्तरोदितः । स्वपक्षे तु शादं दद्भिः प्रीणामि स्वाहेत्यादिहोममन्त्राः । देवता भोक्त्री द्वितीयया निर्दिश्यते । अश्वाङ्गं भोग्यं तृतीयया करणविभक्त्या निर्दिश्यते । क्वचित्केवला देवतैव यथा शुक्लाय स्वाहा कृष्णाय स्वाहेति । क्वचिदन्यविभक्त्यैव द्रव्यदेवतयोर्निर्देशः यथा अग्नेः पक्षतिर्वायोर्निपक्षतिरिति । तथाच श्रुतिः 'शादं दद्भिरवकां दन्तमूलैरित्याज्यमवदानानि कृला प्रत्याख्यायं देवताभ्य आहुतीर्जुहोति या एव देवता अपिभागास्ता भागधेयेन समर्धयति' (१३।३।५।१) इति । अस्यायमर्थः । शादं नाम देवमश्वस्य दद्भिर्दन्तैः प्रीणामीति शेषः । स्वाहाकारो दानार्थः । ततश्च शादं दद्धिः प्रीणामि स्वाहेति एवमन्यान्यपि योज्यानि । आज्यमवदानानि कृत्वा आज्यमेवाश्वाङ्गत्वेन परिकल्प्य प्रत्याख्यायमवदानमवदानं प्रति शादादिदेवता आख्यायाख्यायाज्याहुतीर्जुहोति संकल्पिताश्वाङ्गभवा घृताहुतीः शादादिभ्यो ददाति । एवं कुर्वन्नपिभागाः कल्पितभागास्ता भागेन समर्धयति प्रीणातीत्यर्थः । अथ संहितार्थः । दद्भिरश्वदन्तैः शादं देवं प्रीणामि । दन्तमूलैरवकां देवतां प्रीणामि । वर्स्वैर्दन्तपीठैर्मृदं देवतां प्रीणामि 'वर्स्व स्याद्दन्तपीठिका' । शादादयो ऽप्रसिद्धा देवाः आदित्यादयः प्रसिद्धाः । दंष्ट्राभ्यां तेगां देवतां प्रीणामि । सरस्वत्यै अग्रजिह्वाम् । अत्र चतुर्थ्या देवतोद्देशः : प्रथमयाङ्गस्य अतो विभक्तिव्यत्ययः । जिह्वाया अग्रमग्रजिह्वं जिह्वाग्रेण सरस्वतीं प्रीणामि । जिह्वायाः उत्सादम् । अत्र षष्ठ्याश्वाङ्गोद्देशः द्वितीयया देवस्य विभक्तिव्यत्ययः । जिह्वयोत्सादं देवं प्रीणामि । अवक्रन्देन तालु अत्र देवे तृतीया अङ्गे प्रथमा व्यत्ययः । तालुना अवक्रन्दं देवं प्रीणामि । वाजं हनुभ्याम् । हनुभ्यां वक्रैकदेशाभ्यां वाजं देवं प्रीणामि । आस्येन मुखेनापो देवताः प्रीणामि । आण्डाभ्यां वृषणाभ्यां वृषणं देवं प्रीणामि । श्मश्रुभिर्मुखकेशैरादित्यान्प्रीणामि । भ्रूभ्यां ललाट
गरोमपङ्क्तिभ्यां पन्थानं देवं प्रीणामि । वर्ताः पक्ष्मपङ्क्तिः ताभ्यां ' द्यावापृथिव्यौ देवते प्रीणामि । कनीनकाभ्यां नेत्रमध्यगकृष्णगोलाभ्यां विद्युतं देवतां प्रीणामि । शुक्लाय स्वाहा कृष्णाय स्वाहा देवोद्देश एव न त्वङ्गम् । शुक्लाय कृष्णाय देवाय सुहुतमस्तु । यद्वा चतुर्थ्याश्वाङ्गमेव निर्दिश्यते । प्राजापत्योऽश्व इति ' वचनाद्देवोऽध्याहर्तव्यः । शुक्लेन कृष्णेन चाश्वाङ्गेन प्रजापतिं प्रीणामि । एवं लोमभ्यः स्वाहेत्यादावपि बोध्यम् । पार्याणि पक्ष्माणि । अत्र तद्धितेन देवतोद्देशः । पक्ष्माणि नेत्रोपरिलोमानि पार्याणि पारदेवत्यानि ततः पक्ष्मभिः पारं प्रीणामि । इक्षवो नेत्राधोभागरोमाणि अवारदेवत्याः ततः इक्षुभिरवारं प्रीणामि । विपरीतं वा अवार्याणि अवारदेवत्यानि पक्ष्माणि इक्षवः पार्याः पारदेवत्याः ॥ १ ॥

द्वितीया।
वातं॑ प्रा॒णेना॑पा॒नेन॒ नासि॑के उपया॒ममध॑रे॒णौष्ठे॑न॒ सदुत्त॑रेण प्रका॒शेनान्त॑रमनूका॒शेन॒ बाह्यं॑ निवे॒ष्यं मू॒र्ध्ना स्त॑नयि॒त्नुं नि॑र्बा॒धेना॒शनिं॑ म॒स्तिष्के॑ण वि॒द्युतं॑ क॒नीन॑काभ्यां॒ कर्णा॑भ्या॒ᳪ श्रोत्रँ॒ श्रोत्रा॑भ्यां॒ कर्णौ॑ तेद॒नीम॑धरक॒ण्ठेना॒पः शु॑ष्कक॒ण्ठेन॑ चि॒त्तं मन्या॑भि॒रदि॑तिᳪ शी॒र्ष्णा निरृ॑तिं॒ निर्ज॑ल्पेन शी॒र्ष्णा सं॑क्रोशैः प्रा॒णान् रेष्माण॑ᳪ स्तु॒पेन॑ ।। २ ।।
उ० अश्वस्य प्राणवायुना वातं प्रीणामि । अपानवायुना नासिकासंज्ञे द्वे देवते प्रीणामि । अधस्तनेन ओष्ठेन उपयामं देवं प्रीणामि । उपरितनेन ओष्ठेन सत्संज्ञं देवं प्रीणामि । प्रकाशेनोपरितनदेहकान्त्या अन्तरं देवं प्रीणामि । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति अनोर्दीर्घः । अनूकाशेनाधस्तनदेहकान्त्या बाह्यं देवं प्रीणामि । मूर्ध्ना मस्तकेन निवेष्यं देवं प्रीणामि । निश्चितं बध्यते निर्बाधः शिरोऽस्थिमध्यसंलग्नो मज्जाभागः तेन स्तनयित्नुं देवं प्रीणामि । मस्तके भवं मस्तिष्कं शिरोमध्यस्थो जर्जरो मांसभागः। मस्तिष्कं गोर्दम्' इत्यमरः । मस्तकमिष्यति गच्छति मस्तिष्कम् 'इष गतौ'