पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्या गिरो या गीयन्ते । हेतुं न्यस्यति । एभिश्च इन्दुभिः अध्वर्युणाभिषुतैः सोमैः त्वं वर्धासे वर्धस्व ॥ १३ ॥
म० अग्निदेवत्या गायत्री भरद्वाजदृष्टा । हे अग्ने, त्वमेहि आगच्छ । उः पादपूरणः । सुञ् चेति संहितायामुकारस्य दीर्घः । इत्था इत्थमनेन प्रकारेण न इतराः अन्याः गिरो वाणीः स्तुतिलक्षणाः ते तव सुब्रवाणि सुतरां वदानि । ब्रूञो लोट् । किंच एभिरिन्दुभिः सोमैः वर्धासे वर्धस्व 'लेटोऽडाटौ' ॥ १३ ॥

चतुर्दशी।
ऋ॒तव॑स्ते य॒ज्ञं वि त॑न्वन्तु॒ मासा॒ रक्ष॑न्तु ते॒ हवि॑: ।
सं॒व॒त्स॒रस्ते॑ य॒ज्ञं द॑धातु नः प्र॒जां च॒ परि॑ पातु नः ।। १४ ।।
उ० ऋतवस्ते यजमानेनाग्निरुच्यते अनया बृहत्या । ऋतवः ते तव यज्ञं वितन्वन्तु । मासाश्च ते हविः रक्षन्तु । संवत्सरश्च तव यज्ञं दधातु धारयतु । नः इति निपातोऽनर्थकः । प्रजां च परिपातु नः इति यजमान आत्मानमाह ।। नोऽस्माकं प्रजां च परिपातु संवत्सर एव ॥ १४ ॥
म० अग्निदेवत्या बृहती वर्णपादा विषमपादा । नवकाष्ठकैकादशाष्टिनो विषमपादेति वचनात् । हे अग्ने, ऋतवः ऋतूपलक्षिताः कालविशेषाः ते तव यज्ञं वितन्वन्तु विस्तारयन्तु । मासाः चैत्राद्यधिष्ठातारो देवास्ते तव हविः पुरोडाशादिकं रक्षन्तु पान्तु । संवत्सरस्तदधिष्ठाता देवः ते तुभ्यं त्वदर्थं नोऽस्माकं यज्ञं दधातु पुष्णातु । नोऽस्माकं प्रजां पुत्रादिकां च परिपातु रक्षतु संवत्सर एव ॥ १४ ॥

पञ्चदशी।
उ॒प॒ह्व॒रे गि॑री॒णाᳪ स॑ङ्ग॒मे च॑ न॒दी॒ना॑म् । धि॒या विप्रो॑ अजायत ।। १५ ।।
उ० उपह्वरे गिरीणाम् । चतस्रो गायत्र्यः सौम्यः । उपह्वरे निकटे गिरीणां पर्वतानाम् । प्रसिद्धमेतत् । एकाहाहीनसत्राणि क्रियन्तामित्यनया धिया बुद्ध्या विप्रः मेधावी सोमः अजायत जगद्धारयितुमिच्छन् ॥ १५ ॥
म० सोमदेवत्या गायत्री वत्सदृष्टा । गिरीणां पर्वतानामुपह्वरे निकटे नदीनां गङ्गादीनां च संगमे विप्रो मेधावी सोमः अजायत उत्पन्नः । जनेर्लङ् । कया । धिया बुद्ध्या । विप्रादयो मया यज्ञं करिष्यन्तीति विचार्येत्यर्थः ॥ १५ ॥

षोडशी।
उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि सद्भूम्या द॑दे । उ॒ग्रᳪ शर्म॒ महि॒ श्रव॑: ।। १६ ।।
उ० उच्चा ते । व्यवहितपदप्रायो मन्त्रः । हे सोम, ते तव अन्धसः अध्यानीयात् रसीभूतात् जातमुत्पन्नं यज्ञपरिणामभूतम् उच्चा उच्चैः । दिविसत् द्युलोके विद्यमानम् । पश्चात् भूमिः आददे गृहीतवती । किं तत् द्युलोकप्राप्तं भूमिराददे । उग्रम् उद्गूर्णं महाचौरादिभिरनाधृष्यम् शर्म शरणं गृहम् । महिश्रवः महच्च श्रवणीयं धनम् । पञ्चाहुतिपरिणामोद्घाटनमात्रमेतत्कृतम् । यथाहुतिः प्रथमं दिवि गच्छति ततोऽन्तरिक्षे जलरूपेण ततो भूमावन्नरूपेण ततो नरे रेतोरूपेण ततो योनौ पुरुषरूपेणेति पञ्चधाहुतिपरिणामः ॥ १६॥
म० सोमदेवत्यास्तिस्रो गायत्र्य आमहीयवदृष्टाः । हे सोम, ते तव अन्धसोऽन्नाद्रसरूपात् जातमुत्पन्नं होमतो जातमपूर्वम् । उच्चा उच्चं गतं दिवि स्वर्गे सत् विद्यमानं भूमिः आददे गृह्णाति । भूमिशब्दस्य विसर्गलोपे सन्धिश्छान्दसः । किं तत् द्युलोकस्थं भूमिर्गृह्णाति तदाह । उग्रमुत्कृष्टं शर्म सुखं गृहपुत्रादिजन्यं महि महत् श्रवः कीर्तिर्धनं वा । अनेन मन्त्रेण पञ्चाहुतिपरिणाम उक्तः । स यथा हुताहुतिरादौ दिवि गच्छति ततोऽन्तरिक्षे जलरूपेण ततो भूमावन्नरूपेण ततो नरे रेतोरूपेण ततो योनौ नररूपेणागत्य तं नरं धनयशोभ्यां सुखिनं करोतीति भावः ॥ १६ ॥

सप्तदशी।
स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्य॑: । व॒रि॒वो॒वित्परि॑ स्रव ।। १७ ।।
उ० स नः । यस्त्वं वरिवोवित् वरिवो धनम् तद्विन्दति वेत्ति वा योसौ वरिवोवित् यस्त्वं धनस्य लब्धा वेदिता वा। सः नः सोऽस्माकं यज्ञम् इन्द्राय यज्यवे यष्टव्याय वरुणाय च मरुद्भ्यश्चार्थाय । परिस्रव रक्ष । अथवा स त्वं नः यज्ञम् इन्द्राय यज्यवे वल्माय मरुद्भ्यश्च वरिवोविदिति एतेषां विशेषणं कृतविभक्तिव्यत्ययं गृह्यते सामानाधिकरण्यात् । वरिवोविद्भ्यः धनविद्भ्यः परिस्रव । क्रियाविशेषणं वा । एतेभ्यो देवेभ्यः परिस्रव । तथाच परिस्रव यथा वरिवोविद्भवति ॥ १७ ॥
म० हे सोम, स त्वं नोऽस्माकं परिस्रव क्षर । रसरूपो भूत्वाहुतित्वमेहीत्यर्थः । किमर्थम् । इन्द्राय वरुणाय मरुद्भ्यश्च इन्द्रादीनां तृप्तये परिस्रवेत्यर्थः । कीदृशायेन्द्राय । यज्यवे यष्टुं योग्यो यज्युस्तस्मै यष्टव्याय । इदं त्रयाणां विशेषणम् । यज्युभ्य इति मरुताम् । कीदृशस्त्वम् । वरिवोवित् वरिवो धनं वेत्ति जानाति विन्दति लभते वा वरिवोवित् धनस्य ज्ञाता प्रापकश्च ॥ १७ ॥

अष्टादशी।
ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् । सिषा॑सन्तो वनामहे ।। १८ ।।
उ० एना विश्वानि । एना एनानि विश्वानि सर्वाणि