पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्युम्नानि धनानि । अर्य ईश्वरः सोमः आ आदाय अस्मभ्यं ददात्विति शेषः । तानि च सोमदत्तानि । सिषासन्तः । 'षणु दाने' । अस्य सन्यनुनासिकस्याकारः । दातुमिच्छन्तः दानाभिमुखीभूताः सन्तो वयं धनानि वनामहे संभुज्महे ॥ १८॥
म० अर्यः ईश्वरः सोमः एना एनानि विश्वानि सर्वाणि मानुषाणां नराणां द्युम्नानि धनानि यशांसि वा आनयत्विति शेषः । अस्मभ्यं ददात्वित्यर्थः । तानि सोमदत्तानि द्युम्नानि वयं वनामहे 'वन संभक्तिशब्दयोः' लट् । संभजामहे । कीदृशा वयम् । सिषासन्तः 'षणु दाने' सनितुं दातुमिच्छन्ति सिषासन्ति ते सिषासन्तः । सनेर्धातोः सन्नन्ताच्छतृप्रत्ययः 'जनसनखनां सन्झलोः (पा० ६।४ । ४२) इत्यात्वम् 'सन्यतः' (पा० ७।४ । ७९ ) इति अभ्यासेकारः । दानं कुर्वाणा धनभाजः स्यामेत्यर्थः ॥ १८ ॥

एकोनविंशी।
अनु॑ वीरै॒रनु॑ पुष्यास्म॒ गोभि॒रन्वश्वै॒रनु॒ सर्वे॑ण पु॒ष्टैः ।
अनु॒ द्विप॒दाऽनु॒ चतु॑ष्पदा व॒यं दे॒वा नो॑ य॒ज्ञमृ॑तु॒था न॑यन्तु ।। १९ ।।
उ० किमर्थं धनमतो दातुमिच्छन्तो धनवन्त इत्याह । अनुवीरैः। आशीर्देवता त्रिष्टुप् । अनु पुष्यास्म वीरैः वयम् । अनु पुष्यास्म च गोभिः वयम् । अन्वश्वैः । अनु पुष्यास्म च वयमश्वैः । अनु सर्वेण पुष्टैः । अनुपुष्यास्म च वयं सर्वेण पुष्टेनेति वचनव्यत्ययः । अनु द्विपदा अनुपुष्यास्म च वयं द्विपदा द्विपादेन अनु पुष्यास्म च चतुष्पादेन । किंच । देवाः नोऽस्माकं यज्ञम् ऋतुथा ऋतावृतौ कालेकाले नयन्तु ॥ १९॥
म० आशीरियं देवदेवत्या त्रिष्टुप् मुद्गलदृष्टा । वयं वीरैः पुत्रैः अनुपुष्यास्म पुष्टा भवेम । पुषेराशीर्लिङि उत्तमबहुवचनम् । गोभिर्धेनुभिः अनुपुष्यास्म उपसर्गावृत्त्या क्रियावृत्तिः । अश्वैरनु पुष्यास्म । सर्वेणान्येनापि कामेन पुष्यास्म । पुष्टैः सर्वपदार्थैर्गृहादिभिः पुष्यास्म । द्वौ पादौ यस्येति द्विपात् तेन द्विपदा मनुष्येण दासादिना चतुष्पदा गजादिना च पुष्यास्म 'पादोऽन्यतरस्याम्' (पा० ४ । १ । ८) इत्यन्तलोपः ‘पादः पत्' (पा० ६ । ४ । १३० ) इति पदादेशः । किंच ऋतुथा ऋतावृतौ कालेकाले देवा नोऽस्माकं यज्ञं नयन्तु प्रापयन्तु प्राप्नुवन्तु ॥ १९ ॥

विंशी।
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ । त्वष्टा॑र॒ᳪ सोम॑पीतये ।। २० ।।
उ० अग्ने पत्नीः । इत उत्तरं पञ्च नेष्टुर्याज्याः । आद्या गायत्री । देवानां पत्न्यः त्वष्टा च देवता । हे अग्ने, देवानां पत्नीः इहास्मिन्यज्ञे उपावह आगमय । कथंभूताः । उशती: कामयमानाः अस्मान् । त्वष्टारं च उपावह । किमर्थम् । सोमपीतये सोमपानाय ॥ २० ॥
म० अग्निदेवत्या गायत्री मेधातिथिदृष्टा । इतः पञ्च ऋचोऽग्निष्टोमे नेष्टुर्याज्याः। आद्या प्रातःसवने नेष्टृचमसयागे याज्या । हे अग्ने, देवानां पत्नीः इह यज्ञे त्वमुपावह आगमय । कीदृशीः पत्नीः । उशतीः हविःकामयमानाः । वशेः शत्रन्तात् 'उगितः-' (पा० ४ । १।६) इति ङीप् । किंच सोमपीतये सोमपानाय त्वष्टारं देवं चोपावह ॥ २० ॥

एकविंशी ।।
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्ट॒: पिब॑ ऋ॒तुना॑ ।
त्वᳪ हि र॑त्न॒धा असि॑ ।। २१ ।।
उ० अभि यज्ञम् । द्वे गायत्र्यौ ऋतुग्रहाणां याज्ये । नेष्टा स्वकीयामधिष्ठात्रीं देवतां ब्रवीति । अभिगृणीहि स्तुहि यज्ञं नोऽस्मत्संबन्धिनम् । हे ग्नावः ग्नाः पत्न्यः ता विद्यन्तेऽस्य स ग्नावान् तत्संबोधनं हे ग्नावः । 'मतुवसो रुः संबुद्धौ छन्दसि' इति रुत्वम् । हे नेष्टः, पिब च ऋतुना कालेन सह । कस्मात्त्वमेवमुच्यसे इतिचेत्तत्राह । त्वं हि रत्नधा असि । यस्मात्त्वमेव रमणीयानां धनानां दातासि ॥ २१ ॥
म०. द्वे ऋतुदेवते गायव्यौ मेधातिथिदृष्टे ऋतुयागे नेष्टुर्याज्ये । ग्नाः पत्न्योऽस्य सन्तीति ग्नावा । 'तदस्यास्ति-' (पा. ५। २ । ९४ ) इति मतुप् । 'मादुपधायाः-' (पा० ८ । २।९) इति वत्वम् । तस्य संबोधनं हे ग्नावः पत्नीवन् , हे नेष्टः, नोऽस्माकं यज्ञमभिगृणीहि स्तुहि 'गॄ शब्दे' क्र्यादित्वात् श्ना 'ई हल्यघोः' (पा० ६ । ४ । ११३) इति तस्येकारः 'प्वादीनां ह्रस्वः' (पा. ७ । ३ । ८०) इति धातोर्र्ईस्वः । किंच ऋतुना देवेन सह पिब सोममिति शेषः । हि यस्मात् त्वं रत्नधा असि रत्नानि दधाति ददाति रत्नधाः रमणीयधनानां दातासि ॥ २१॥

द्वाविंशी।
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत । ने॒ष्ट्रादृ॒तुभि॑रिष्यत ।। २२ ।।
उ० द्रविणोदाः । ऋत्विज उच्यन्ते । अयमग्निः द्रविणोदाः धनस्य बलस्य वा दाता । पिपीषति पातुमिच्छति । पिबतेः सनीकारः । सोममिति शेषः । एवंचेदतो ब्रवीमि । हे ऋत्विजः, जुहोत प्र च तिष्ठत जुहुत च प्रतिष्ठत च कर्मसु । किंच । नेष्ट्रात् नेष्ट्रियात् धिष्ण्यात् ऋतुभिः कालैः सह सोमम् इष्यत पुनःपुनः पिबत ॥ २२ ॥
म०. द्रविणस्शब्दः सान्तो धनवाची । द्रविणो धनं ददाति द्रविणोदाः धनदाताग्निः । पिपीषति पातुमिच्छति सोममिति