पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० होता यक्षत्पेशस्वतीः। दैव्यो होता यजतु पेशस्वतीः रूपसमृद्धाः तिस्रो देवीः हिरण्ययीः हिरण्यालंकृतशरीराः। भारतीः भरत आदित्यः तस्य भारतीः । बहुवचनमिडासरस्वत्युपलक्षणार्थम् । बृहतीः प्रभावतः महत्यः आदित्येन्द्राग्निसंबन्धात् । पतिं पालयितारम् इन्द्रं च वयोधसम् आयुषो धारयितारं यजतु । किंकुर्वन्यजतु । विराजं छन्दः इहास्मिन्निन्द्रे इन्द्रियं वीर्यं च । धेनुं गां न । नकारः समुच्चयार्थीयः । धेनुं च गां वय आयुश्च दधत् धारयन् । तिस्रो देव्यश्च सेन्द्रा ईज्यमानाः व्यन्तु पिबन्तु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३१ ॥
म० एकाधिका शक्वरी । होता तिस्रो देवीः पतिं पालकं वयोधसमिन्द्रं च यजतु । कीदृशीस्तिस्रः । पेशो रूपमस्ति यासां ताः रूपसमृद्धाः । हिरण्ययीः हिरण्यालंकृतदेहाः । बृहतीः प्रभावेण । महीः महतीः तेजसा आदित्येन्द्राग्निसंबन्धात् । कास्ताः भारतीः। बहुवचनमिडासरस्वत्युपलक्षणम् । इडासरस्वतीभारत्यस्तिस्र इत्यर्थः । किं कुर्वन् । विराजं छन्दः इन्द्रियम् धेनुं दोग्ध्रीं गाम् वयश्चेन्द्रे दधत् । नकारश्चार्थः । सेन्द्रास्ता व्यन्तु ॥ ३१ ॥

द्वात्रिंशी।
होता॑ यक्षत्सु॒रेत॑सं॒ त्वष्टा॑रं पुष्टि॒वर्ध॑नᳪ रू॒पाणि॒ बिभ्र॑तं॒ पृथ॒क् पुष्टि॒मिन्द्रं॑ वयो॒धस॑म् ।
द्वि॒पदं॒ छन्द॑ इन्द्रि॒यमु॒क्षाणं॒ गां न वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३२ ।।
उ० होता यक्षत्सुरेतसम् । दैव्यो होता यजतु सुरेतसं त्वष्टारम् । शोभनं हि रेतस्त्वष्टुर्जगदुत्पत्तिबीजत्वात् । पुष्टिं वर्धयितारम् । रूपाणि बिभ्रतं पृथक् पुष्टिम् । जातिषु रूपाणि पुष्टिं च पृथक् धारयन्तम् । इन्द्रं च वयोधसं आयुषो धारयितारं यजतु । किंकुर्वन्यजतु । द्विपदं च छन्दः इन्द्रियं वीर्यम् उक्षाणं गां न । नकारः समुच्चयार्थीयो भिन्नक्रमः । उक्षाणं च गाम् वय आयुश्च इन्द्रे दधत् धारयन् । त्वष्टा च सेन्द्रः ईज्यमानः वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३२ ॥
म. एकाधिका शक्वरी । होता त्वष्टारं वयोधसमिन्द्रं च यजतु । कीदृशं त्वष्टारम् । सुरेतसं शोभनं रेतो यस्य तम् । जगदुत्पादकत्वात्त्वष्टुः शोभनं रेतः । पुष्टिवर्धनं पुत्रादिपुष्टेर्वर्धयितारम् । पृथक् नानाजातिषु रूपाणि पुष्टिं च बिभ्रतम् । किं कुर्वन् । द्विपदं छन्दः इन्द्रियम् उक्षाणं रेतःसेकक्षमं गां वृषम् वयश्चेन्द्रे दधत् । नश्चार्थः । सेन्द्रस्त्वष्टा वेतु ॥ ३२ ॥

त्रयस्त्रिंशी।
होता॑ यक्ष॒द्वन॒स्पति॑ᳪ शमि॒तार॑ᳪ श॒तक्र॑तु॒ᳪ हिर॑ण्यपर्णमु॒क्थिन॑ᳪ रश॒नां बिभ्र॑तं व॒शिं भग॒मिन्द्रं॑ वयो॒धस॑म् ।
क॒कुभं॒ छन्द॑ इ॒हेन्द्रि॒यं व॒शां वे॒हतं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३३ ।।
उ० होता यक्षद्वनस्पतिम् । दैव्यो होता यजतु वनस्पतिं शमितारं हविषः संस्कर्तारम् । शतक्रतुं बहुकर्माणम् । हिरण्यपर्णं सुवर्णमयपत्रम् । उक्थिनम् । 'वच परिभाषणे' अस्य उक्थिनं वचनवन्तं यज्ञवन्तं वा । रशनां बिभ्रतम् स्वरूपानुवादः । यूपे हि पशुबन्धनार्थं रज्जुर्बध्यते । वशिं कान्तं भगं भजनीयम् । इन्द्रं च वयोधसमायुषो धारयितारं यजतु । किं कुर्वन् दैव्यो होता यजतु । ककुभं च छन्दः इहेन्द्रे इन्द्रियं वीर्यं च वशां वन्ध्यां वेहतं गर्भघातिनीं च गां वय आयुश्च दधत् धारयन् । वनस्पतिश्च सेन्द्र ईज्यमानः वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३३ ॥
म० अत्यष्टिः । होता वनस्पतिं वयोधसमिन्द्रं च यजतु । कीदृशं वनस्पतिम् । शमितारं संस्कर्तारं हविषाम् । शतक्रतुं बहुकर्माणम् । हिरण्यपर्णं हिरण्मयानि पर्णानि यस्य तम् । | उक्थिनम् उक्थानि शस्त्राणि सन्त्यस्य यज्ञवन्तं वा । रशनां रज्जु बिभ्रतम् । स्वभावानुवादः । यूपे हि पशुबन्धाय रज्जुर्बध्यते । वशिं कान्तम् । भगं भजनीयम् । किं कुर्वन् । ककुभं छन्दः इन्द्रियम् वशां वन्ध्यां वेहतं गर्भोपघातिनीं च | गाम् वयश्च इह इन्द्रे दधत् । सेन्द्रो वनस्पतिर्वेतु ॥ ३३ ॥

चतुस्त्रिंशी।
होता॑ यक्ष॒त्स्वाहा॑कृतीर॒ग्निं गृ॒हप॑तिं॒ पृथ॒ग्वरु॑णं भेष॒जं क॒विं क्ष॒त्रमिन्द्रं॑ वयो॒धस॑म् ।
अति॑च्छन्दसं॒ छन्द॑ इन्द्रि॒यं बृ॒हदृ॑ष॒भं गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३४ ।।
उ० होता यक्षत्स्वाहाकृतीः । दैव्यो होता यजतु स्वाहाकृतीः प्रयाजदेवताः। अग्निं च गृहपतिं पृथक् यजतु । वरुणं च भेषजम् । तथा कविं कान्तदर्शनं । क्षत्रं प्रहाराद्रक्षितारम् । इन्द्रं च वयोधसमायुषो धारयितारम् यजतु । किंकुर्वन्यजतु । अतिच्छन्दसं च छन्दः इन्द्रियं च वीर्यं बृहन्महत् ऋषभं च गां वय आयुश्च इन्द्रे दधत् धारयन् । सेन्द्रश्च प्रयाजदेवता ईज्यमाना व्यन्तु पिबन्तु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३४ ॥
म० अतिशक्वरी । होता स्वाहाकृतीः प्रयाजदेवताः इन्द्रं च यजतु । कीदृशमिन्द्रम् । अग्निम् अङ्गतीत्यग्निः अग्रे गन्तारम् । पृथक् प्रत्येकं यज्ञेषु । गृहपतिं गृहस्य पालकम् ।