पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

संनिदधाति । यस्य चास्य बहुः इषुकलापः पुत्रः पुत्रस्थानीयः । स हि तेन इषुकलापेन त्रायते बहु वा तदर्थं हितं करोति । चिश्चाकृणोति । शब्दानुकरणमेतत् । इषोर्निष्र्रम्यमाणः चिश्चेत्येवं शब्दं करोति । समनावगत्य समना संग्रामान् अगवत्य ज्ञात्वा । स इषुधिः संकाः संधत्ते अस्मिन् योधा इति संकाः संकीर्यन्ते अस्मिन्नरय इति संकाः शत्रुसंकटं । पृतनाश्च सर्वाः पृतनाः स्पर्धनीयतमाः। संग्रामभक्तीः सर्वाः पृष्ठे निनद्धः धानुष्कस्य पृष्टे बद्धः प्रसूतः धानुष्केणाभ्यनुज्ञातः सन् जयति । अत्र इषुधेः कर्तृत्वम् । विवक्षातः कारकाणि भवन्तीति वैयाकरणाः ॥ ४२ ॥
म० इषुधिः स्तूयते । य इषुधिः तूणो बह्वीनामिषूणां पिता पालकः । यतो बाणान्धरति । अस्येषुधेर्बहुः । बाणसमूहः पुत्रः पुत्रस्थानीयः पाल्यमानत्वात् । पुरून्बहून् त्रायत इति पुत्रः । स इषुधिः समना संग्रामान् अवगत्य ज्ञात्वा । चिश्चाकृणोति चिश्चेति शब्दं करोति । शब्दानुकरणमेतत् । वाणे तूणान्निष्काम्यमाणे चिश्चेति शब्दो भवति । च पुनः स इषुधिर्धानुष्केण पृष्ठे निनद्धः बद्धोऽपि प्रसूतः अनुज्ञातः सन् सर्वाः पृतनाः जयति शत्रुसेनाः पराभवति । कीदृश्यः पृतनाः । संकाः 'संकाः सचतेः संपूर्वाद्वा किरतेः' (निरु. ९ । १४ ) इति यास्कोक्तेः सचतेः किरतेर्वा रूपम् । सचन्ते संबध्यन्ते संकीर्यन्ते वा योधा यासु ताः संकाः । विवक्षातः कारकाणि भवन्तीति वचनादिषुधेः कर्तृत्वम् ॥ ४२ ॥

त्रिचत्वारिंशी।
रथे॒ तिष्ठ॑न् नयति वा॒जिन॑: पु॒रो यत्र॑-यत्र का॒मय॑ते सुषार॒थिः ।
अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मन॑: प॒श्चादनु॑ यच्छन्ति र॒श्मय॑: ।। ४३ ।।
उ० रथे तिष्ठन् । जगत्या अर्धेन सारथिः स्तूयतेऽर्धेन रश्मयः । सुसारथिः रथे तिष्ठन् नयति वाजिनः प्रापयत्यश्वान् पुरः पुरतोऽवस्थितान् । यत्र यत्र कामयते तं वयं स्तुम इति शेषः । अभीशूनां प्रग्रहाणां महिमानं महाभाग्यं पनायत पूजयत हे जनाः । ये मनः अश्वसंबन्धि चित्तम् पश्चात्सन्तः अनुयच्छन्ति अनुगम्य गृह्णन्ति रश्मयः यन्तारः॥४३॥
म० अर्धेन सारथिरर्धेन रश्मयः स्तूयन्ते । जगती इयम् । सुषारथिः सुसारथिः शोभनः सारथिः यत्र यत्र प्रदेशे कामयते इच्छति मयात्र गन्तव्यमिति तत्र तत्र पुरो वर्तमानान् वाजिनः नयति प्रापयति । कीदृशः। रथे तिष्ठन् । तं स्तुम इति शेषः । इदानीं रश्मयः स्तूयन्ते । हे जनाः, अभीशूनां रश्मीनां महिमानं महाभाग्यं यूयं पनायत स्तुत । ये रश्मयः पश्चाद्वर्तमानाः सन्तः मनोऽश्वचित्तमनुयच्छन्ति अनुगम्य गृह्णन्ति वशवर्तिनं कुर्वन्तीत्यर्थः । 'पन स्तुतौ' 'गुपूधूप-' (पा० ३ । १ । २८) इत्यादिना आयप्रत्ययान्तात्पनेर्लोट् ॥ ४३ ॥

चतुश्चत्वारिंशी।
ती॒व्रान् घोषा॑न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः ।
अ॒व॒क्राम॑न्त॒: प्रप॑दैर॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒१।। रन॑पव्ययन्तः ।। ४४ ।।
उ० तीव्रान्घोषान् । अश्वाः स्तूयन्ते त्रिष्टुभा । तीव्रान् जयजयेत्युग्रान् घोषान् शब्दान् कृण्वते कुर्वन्ति । वृषपाणयः वृषा अश्वाः पाणौ येषां संग्रहीतृप्रभृतीनां योक्तॄणां ते तथोक्ताः । युक्ताः श्वसन्तः अश्वाः रथेभिः रथैः । सह वाजयन्तः पूजयन्तः रथिनः तीव्रानेव घोषान् हेषितादीन्कृण्वते । अवक्रामन्तः प्रपदैः खुरैः अमित्रान् शत्रून् क्षिणन्ति क्षिण्वन्ति हिंसन्ति । अनपव्ययन्तः । 'व्यय क्षये। अपपूर्वादस्माच्छतृप्रत्ययः । अपव्ययन्तः नश्यन्तः न अपव्ययन्तोऽनपव्ययन्तः न नश्यन्तः । अपरित्यजन्तो वा स्वामिनम् ॥ ४४ ॥
म० अश्वाः स्तूयन्ते । वृषाः अश्वाः पाणौ हस्ते येषां ते वृषपाणयोऽश्ववाराः तीव्रान्घोषान् जयजयेति शब्दान् कृण्वते कुर्वन्ति । अश्वा अपि रथेभिः रथैः सह वाजयन्तः गच्छन्तः सन्तस्तीव्रान्घोषान्शब्दान्कुर्वन्ति शत्रून् क्षिणन्ति नाशयन्ति च । कीदृशा अश्वाः । प्रपदैः पादाग्रैः खुरैः अमित्रान् रिपून् अवक्रामन्तः आक्रामन्तः । अनपव्ययन्तः 'व्यय क्षये' अदन्तश्चुरादिः अपव्ययन्ति ते अपव्ययन्तः न अपव्ययन्तोऽनपव्ययन्तः अनश्यन्तः समर्थाः । वाजिनः 'वज गतौ' स्वार्थे णिच् ॥४४॥

पञ्चचत्वारिंशी।
र॒थ॒वाह॑णᳪ ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ ।
तत्रा॒ रथ॒मुप॑ श॒ग्मᳪ स॑देम वि॒श्वाहा॑ व॒यᳪ सु॑मन॒स्यमा॑नाः ।। ४५ ।।
उ० रथवाहणम् । रथस्तुतिः त्रिष्टुप् । यस्य स्वनसः रथवाहणं रथवोढ इति नाम । हविरिति नाम्नोर्धलोपः । हविर्धानमिति च द्वितीयं नाम । विमुच्य सयन्तृकं रथवाहणं करोति अनस्तत्कर्मेति कात्यायनः। 'तस्मादनस एव पौरोडाशेषु यजूᳪषि' इति श्रुतिः । यत्र यस्मिन् आयुधं निहितं स्थापितम् । अस्य योद्धुः वर्म च संनहनम् । तथाऽनसि रथम् शग्मं सुखम् उपसदेम उपसादयाम । विश्वाहा सर्वदा वयम् । सुमनस्यमानाः अनुकूलचित्ताः ॥ ४५ ॥
म० शकटद्वारा रथः स्तूयते । अस्यानसो रथवाहणं नाम रथं वहतीति रथवाहनम् । वाजपेयेऽनसि रथस्यारोप्यमाणत्वात् । तथास्य हविः हविर्धानं नाम । पृषोदरादित्वादुत्तरार्थलोपः । यत्रानसि अस्य योद्धुर्वर्म आयुधं च निहितं स्थापितम् तत्रानसि वयं रथमुपसदेम उपसादयामः । कीदृशं रथं । शग्मं सुखकरम् । कीदृशा वयम् । विश्वाहा सर्वदा सुमनस्यमानाः शोभनं मनो येषां ते सुमनसः असुमनसः सुमनसो भवन्ति सुमनस्यन्ते