पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

कृताः आत्मयागे परिधिशब्देन पृथिव्यापस्तेजोवायुराकाशं मनोबुद्धिरित्येते परिधयः कल्प्यन्ते । त्रिःसप्त समिधः । पञ्चमहाभूतानि पृथिव्यादीनि । पञ्चतन्मात्राणि रूपादीनि । पञ्च बुद्धीन्द्रियाणि श्रोत्रादीनि । पञ्च कर्मेन्द्रियाणि पाण्यादीनि मनश्च एताः त्रिःसप्त समिधः। कल्पयन्ति । तथा देवा दीप्यमाना ज्ञानेन योगिनः समाध्याख्यं यज्ञं तन्वाना विस्तारयन्तः । पुरुषं ज्ञानं पुरुषमेधपशुरूपेणावस्थितम् अबध्नन् अगृह्णन् ॥ १५ ॥
म० यत् यदा देवाः प्रजापतिप्राणेन्द्रियरूपाः यज्ञं तन्वानाः मानसं यज्ञं कुर्वाणाः पुरुषं पशुमबध्नन् विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वं ( १४ ) पुरुषेण हविषेत्युक्तम् । तदा संकल्पितस्य यज्ञस्य सप्त गायत्र्यादीनि छन्दांसि परिधयः आसन् ऐष्टिकस्याहवनीयस्य त्रयः परिधय औत्तरवेदिकाः त्रयः आदित्यः सप्तमः परिधिःप्रतिनिधिरूपः तथा च श्रुतिः 'गुप्त्यै वा अभितः परिधयो भवन्त्यथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति' इति । तत एते आदित्यसहिताः सप्त परिधयोत्र सप्तच्छन्दोरूपाः। त्रिःसप्त त्रिगुणाः सप्त एकविंशतिसंख्याकाः समिधः कृताः 'द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्यः' एते एकविंशतिरेकविंशतिदारुयुक्तेध्मत्वेन भाविताः । यद्वा सप्त समुद्राः क्षीरोदादयोऽस्य यज्ञस्य परिधयः आसन् । भारतखण्डे यागा भवन्तीति समुद्राणां परिधित्वम् । त्रिः त्रिगुणाः सप्त छन्दोवर्गाः समिधः कृताः गायत्र्यादीनि सप्त अतिजगत्यादीनि सप्त कृत्यादीनि सप्तेति ॥ १५ ॥

षोडशी।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।। १६ ।।
उ० यज्ञेन यज्ञम् । यज्ञेन यज्ञम् अयजन्त देवाः तानि धर्माणि प्रथमानि आसन् । ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः । यथा इन्द्रादयो देवाः यज्ञेन ज्योतिष्टोमाख्येन यज्ञपुरुषं वासुदेवम् विधिना अयजन्त । यतः तानि यजनरूपाणि धर्माणि प्रथमानि आसन् ते ह महाभाग्ययुक्ताः नाकं सचन्त स्वर्गं सेवन्ते । यत्र पूर्वे साध्याः प्रथमे सुराः सन्ति विद्यन्ते देवाः तेजसा देदीप्यमानाः । एवं योगिनोऽपि दीपनाद्देवा यज्ञेन समाधिना . नारायणाख्यं ज्ञानरूपम् अयजन्त । यतः तानि समाधिरूपाणि धर्माणि प्रथमान्यासन् । ते तु नाकं सनकादीनां स्थानं गच्छन्ति । ये तु योगिनो महिमानः जन्मान्तरैर्निर्धूतगुणाः शुद्धाः ते नारायणाख्यं पुरुषमाविशन्ति । मुक्तिं गच्छन्तीत्यर्थः ॥ १६॥
म० पूर्वप्रपञ्चेनोक्तमर्थं संक्षिप्याह । देवाः प्रजापतिप्राणरूपा यज्ञेन यथोक्तेन मानसेन संकल्पेन यज्ञेन यज्ञं यज्ञस्वरूपं प्रजापतिमयजन्त पूजितवन्तः । तस्मात्पूजनात् तानि प्रसिद्धानि धर्माणि जगद्रूपविकाराणां धारकाणि प्रथमानि मुख्यानि भूतानि आसन् । एतावता सृष्टिप्रतिपादकसूक्तभागार्थ उक्तः । अथोपासनतत्फलानुवादकभागार्थः संगृह्यते । यत्र यस्मिन्विराट्प्राप्तिरूपे नाके पूर्वे साध्याः पुरातनाः विराडुपाधिसाधकाः देवाः सन्ति तिष्ठन्ति तं नाकं विराट्प्राप्तिरूपं स्वर्गं ह एव ते महिमानः तदुपासका महात्मानः सचन्त सचन्ते समवयन्ति प्राप्नुवन्ति । अडभाव आर्षः। सृष्टेः प्रवाहनित्यतां दर्शयति । तदुक्तम् 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्' इति ॥ १६ ॥
इति पुरुषसूक्तानुवाकः ।

सप्तदशी।
अ॒द्भ्यः सम्भृ॑तः पृथिव्यै॒ रसा॑च्च वि॒श्वक॑र्मण॒: सम॑वर्त॒ताग्रे॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ।। १७ ।।
उ० अद्भ्यः संभृतः । अद्भ्यः संभृतः पृथिव्यै रसात् च विश्वकर्मणः सम् अवर्तत अग्रे । तस्य त्वष्टा विदधत् रूपम् एति तत् मर्त्यस्य देवत्वम् आजानम् अग्रे । त्वष्टा प्रजापतिर्ब्रह्मा यद्रूपमेकांशभूतं विदधत्कृतवान् तदेव मर्त्यस्य मर्त्ये भूलोके देवत्वं प्रभुत्वम् आजानमाप्तमित्यर्थः । किंभूतोसौ । अद्भ्यः सकाशात् संभृतः पिण्डीभूतः पृथिव्या रसात् च । विश्वकर्मणः अग्रे प्रथमतः समवर्तत संयोगरूपेण कृतः । तस्यैव नान्यस्य तदेव कारणान्मर्त्ये प्राप्तवान् सतु पालनीयदानवादिविनाशनायेति ॥ १७ ॥
म० 'अद्भ्यः संभृत इत्युत्तरनारायणेनादित्यमुपस्थायेति' (१।३। ६ । २ । २०) षट् कण्डिका उत्तरनारायणम् । उपान्त्ये द्वे अनुष्टुभौ शेषास्त्रिष्टुभः आदित्यदेवत्याः । पूर्वकल्पे पुरुषमेधयाजी आदित्यरूपं प्राप्तः स्तूयते । अद्भ्यः जलात् पृथिव्याः सकाशाच्च पृथिव्यपां ग्रहणं भूतपञ्चकोपलक्षकम् । भूतपञ्चकात् यो रसः संभृतः पुष्टः । तथा विश्वं कर्म यस्य विश्वकर्मणः कालस्य रसात्प्रीतेः यो रसोऽग्रे प्रथमं समवर्तत समभवत् । भूतपञ्चकस्य कालस्य च सर्वं प्रति कारणत्वात्पुरुषमेधयाजिनो लिङ्गशरीरे पञ्च भूतानि तुष्टानि कालश्च । ततस्तुप्टेभ्यः कश्चिद्रसविशेषफलरूप उत्तमजन्मप्रद उत्पन्न इत्यर्थः । तस्य रसस्य रूपं विदधत् धारयन् त्वष्टा आदित्यः एति प्रत्यहमुदयं करोति । अग्रे प्रथमं मर्त्यस्य मनुष्यस्य सतस्तस्य पुरुषमेधयाजिनः आजानदेवत्वं मुख्यं देवत्वम् सूर्यरूपेण । द्विविधा देवाः कर्मदेवा आजानदेवाश्च । कर्मणोत्कृष्टेन देवत्वं प्राप्ताः कर्मदेवाः । सृष्ट्यादावुत्पन्ना आजानदेवाः । ते कर्मदेवेभ्यः श्रेष्ठाः 'ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः' ( बृह० मा० ४ । १ । ३५) इति श्रुतेः सूर्यादय आजानदेवाः ॥ १७॥.