पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

शोभनैः वचनैः त्वं संपृच्छसे कतमः पन्था इति लोकान् पृच्छसि एकाकित्वात् । शोभन्ते तानि शुभानानि । शानचि शपि लुप्ते रूपम् । संपूर्वस्यर्तेः शानचि शपि लुप्ते समराण इति । हरयोऽश्वा अस्य सन्तीति हरिवान् 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८ । ३ । १) इति रुः । हे हरिवः इन्द्र, नोऽस्माकं तत् एकाकिगमनकारणं वोचेः ब्रूहि । यत् यतो हेतोः अस्मे वयं ते तव त्वदीया वयमिति हेतोर्वक्तव्यमित्यर्थः । तिस्रः प्रतीकोक्ताः तत्र महाँइन्द्र इत्यस्याः (७ । ४० ) महेन्द्रग्रहणे विनियोगः नृवदित्यस्याः (७॥३९ ) स्थाने कदाचनेति ( ८।२-३) द्वयोरादित्यग्रहणे विनियोगः ॥ २७ ॥

अष्टाविंशी।
आ तत्त॑ इन्द्रा॒यव॑: पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् ।
स॒कृ॒त्स्वं ये पु॑रुपु॒त्रां म॒हीᳪ स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ।। २८ ।।
उ० आ तत् त्रिष्टुप् । आङुपसर्गः पनन्तेत्याख्यातेन संबध्यते । आपनन्त । पनतिः पूजाकर्मा । पूजयन्ति वृत्रवधादिकम् ते तव संबन्धि कर्म हे इन्द्र, आयवः मनुष्याः यजमानाः । कथंभूता आयवः । अभितितृत्सान् । तृत्सतिर्हिंसाकर्मा । ये अभितर्दितुं हिंसितुमिच्छन्ति । किमित्यत आह । ऊर्वम् अन्नं सोमलक्षणम् । गोमन्तं उदकवन्तम् । निग्राभ्याभिः सोमोऽभिषूयते । येऽपि उदकवन्तं सोममभिषुण्वन्ति तेपि पूजयन्तीत्यर्थः । किंच । सकृत्स्वम् । एकवारमेव प्रसूयते यागो हिरण्यधान्यादिभिः सा सकृत्सूस्तां सकृत्स्वम् । ये यजमानाः । पुरुपुत्रां बहुपुत्राम् । सर्वे एव पदार्थाः पृथिवीत उत्पद्यन्ते। महीं भूमिम् । सहस्रधारां अनन्तभोगप्रदायिनीम् । बहुधा प्राणिजातं धारयन्तीं वा । बृहतीं महतीम् । दुदुक्षन् दोग्धुमिच्छन्ति । भूमिदानं सर्वमेधयाजिनश्चोद्यते तदभिप्रायमेतत् । ये च सोमाभिषवं कुर्वन्ति ये च पृथिवीं ददति ते त्वां पूजयन्ति नान्ये दुर्मेधस इति ॥ २८॥
म० गौरीवितिदृष्टा त्रिष्टुप् आदित्यग्रहस्य दधिश्रयणे विनियोगः । यज्ञो देवानामित्यस्याः ( ८ । ४) स्थाने । हे इन्द्र, आयवो मनुष्याः ते तव तत् कर्म आपनन्त पूजयन्ति । पनतिः पूजाकर्मा । लङ् अडभाव आर्षः । ये आयवः ऊर्वमन्नं सोमरूपमभितितृत्सान् अभितितृत्सन्ति तर्दितुं हिंसितुमिच्छन्ति तितृत्सन्ति 'उतृदिर् हिंसानादरयोः' सन्नन्तः 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इत्यतेरिकारलोपः । सोमं सोतुमिच्छन्तीत्यर्थः । कीदृशमूर्वम् । गोमन्तं गौरुदकमस्ति यस्मिन् स गोमान् तम् निग्राभ्यालक्षणोदकयुतम् । ताभिरेव सोमः सूयते । किंच ये मनुष्याः महीं भूमिं दुदुक्षन् दुधुक्षन्ति दोग्धुमिच्छन्ति । दुहेः सनन्ताल्लट् पूर्ववदिकारलोपः । तेऽपि तव कर्म पनन्ति स्तुवन्ति । कीदृशीं महीम् । सकृत्स्वं सकृदेकवारमेव सूते हिरण्यधान्यादि ददाति सकृत्सूः ताम् । पुरुपुत्रां बहुपुत्राम् । सर्वे पदार्थाः पृथिवीत उत्पद्यन्ते । सहस्रधारां सहस्रं धारा हिरण्यादयो यस्याः सा ताम् बहुभोगदाम् । यद्वा सहस्रमसंख्यं प्राणिजातं धरति सहस्रधारा ताम् । बृहती महतीम् । ये विप्राः सोमाभिषवं कुर्वन्ति ये च क्षत्रिया भूमिं दुहन्ति पालयन्ति ददते ते इन्द्रस्य वृत्रवधादिकर्म स्तुवन्ति नान्ये दुर्मेधस इत्यर्थः ॥ २८ ॥

एकोनत्रिंशी।
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वास॒: शव॑सामद॒न्ननु॑ ।। २९ ।।
उ० इमां ते हे इन्द्र, इमां ते तव धियं स्तुति प्रभरे प्रहरामि शपयामि । कथंभूतस्य ते । महः महतः । कथं भूतां धियम् । महीं महतीम् । अस्य यज्ञस्य स्तोत्रे धिषणा वाक् । यत्ते यस्मात्ते तव स्वभूतान् गुणान् आनजे अभिव्यनक्ति ऐन्द्रमेव यज्ञं प्रकाशयति । किंच । तमेवेन्द्रम् । उत्सवे च अभ्युदये प्रसवे च अभ्यनुज्ञानाय विषयभूतायाम् । सासहिं शत्रूणामभिभवितारम् । देवासः देवा अपि शवसा मदन्ननु । शवसा बलेन अन्वमदन् अभिष्टुवन्ति । पूर्वार्धर्चः प्रत्यक्षकृतः उत्तरस्तु परोक्षकृतः अतो वाक्यभेदेन व्याख्यानम् ॥ २९ ॥
म० कुत्सदृष्टा जगती सावित्रपुरोरुक् वाममद्येत्यस्याः ( ८ । ६ ) स्थाने । हे इन्द्र, इमां मामकीं धियं बुद्धिं स्तुतिं वा कर्म वा ते तुभ्यं प्रभरे प्रहरे समर्पयामि । कीदृशस्य ते। महः महतः पूज्यस्य । कीदृशीं धियम् । महीं महतीम् । यत् यस्मात् अस्य यजमानस्य धिषणा बुद्धिर्वाग्वा स्तोत्रे क्रियमाणे ते तव आनजे त्वां व्यनक्ति । कर्मणि षष्ठी । अञ्जेर्लिट् नलोपश्छान्दसः । किंच देवासः देवाः तमिन्द्रमन्वमदन अनुमदन्ति स्तुवन्ति 'छन्दसि परेऽपि' ( पा० १।४। ८१ ) इत्यनोः परः प्रयोगः । क्व स्तुवन्ति । उत्सवे अभ्युदये । प्रसवे गुर्वाद्यनुज्ञायां सत्याम् । यद्वा प्रसवे पुत्राद्युत्पत्तिरूपे उत्सवे इन्द्रं स्तुवन्ति । कीदृशमिन्द्रम् । शवसा बलेन सासहिम् सहते सासहिः शत्रूणामभिभवितारम् । चौ समुच्चये ॥ २९ ॥ इन्द्रस्तुत्संज्ञं द्वितीयमहः समाप्तम् ॥
.
त्रिंशी।
वि॒भ्राड् बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ।। ३० ।।
उ० विभ्राट् बृहत् । जगती सूर्यस्तुतिः। द्वितीयेऽहनि ग्रहाणां पुरोरुचः । द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । यः वातजूतः वातप्रेरितः वातो यस्य वोढेत्यभि