पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चचत्वारिंशी।
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं भग॑म् । आ॒दि॒त्यान् मारु॑तं ग॒णम् ।। ४५ ।।
उ० इन्द्रवायू बृहस्पतिम् । तिस्रो गायत्र्यः । इन्द्रवायू बृहस्पतिम् । मित्रा मित्रमितिप्राप्ते आकारः । मित्रम् अग्निम् पूषणम् भगम् । आदित्यान् मारुतं च गणम् आह्वयामीति शेषः ॥ ४५॥
म० मेधातिथिदृष्टे द्वै गायत्र्यौ । आद्या ऐन्द्रवायवस्य पुनर्ग्रहणे द्वितीया मैत्रावरुणग्रहणे । इन्द्रवायू बृहस्पतिं मित्रा। विभक्तेराकारः । अग्निं पूषणं भगम् आदित्यान् मारुतं मरुत्संबन्धिनं गणं एतानाह्वयामि ॥ ४५ ॥

षट्चत्वारिंशी।
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑: । कर॑तां नः सु॒राध॑सः ।। ४६ ।।
उ० वरुणः प्राविता । वरुणः प्राविता प्रकर्षेण अविता रक्षकः भुवन् भवतु मित्रश्च । विश्वाभिः सर्वाभिः ऊतिभिः अवनैः पालनैः । किंच करतां कुरुतां च नः अस्मान् सुराधसः शोभनधनान् ॥ ४६॥
म० वरुणः मित्रश्च विश्वाभिः सर्वाभिः ऊतिभिः अवनैः रक्षणप्रकारैः प्राविता प्रकर्षेण रक्षको भुवत् भवतु । भवतेर्व्यत्ययेन तुदादित्वात् शप्रत्ययः 'इतश्च लोपः' (पा० ३ । ४ । ९७) इति तिप इलोपः धातोरुवङ् । किंच मित्रावरुणौ नोऽस्मान् सुराधसः शोभनधनान् करतां कुरुताम् । शोभनं राधो येषाम् ॥ ४६ ॥

सप्तचत्वारिंशी ।
अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॒नाम् । इ॒ता मरु॑तो॒ अश्वि॑ना ।
तं प्र॒त्नथा॒ ऽयं वे॒नो ये दे॑वास॒ आ न॒ इडा॑भि॒र्विश्वे॑भिः सो॒म्यं मध्वोमा॑सश्चर्षणीधृतः ।। ४७ ।।
उ० अधि नः । अधि इत् अध्यागच्छति नोऽस्माकम् एषां च सजात्यानामृत्विजाम् । हे इन्द्र, हे विष्णो, हे मरुतः, हे अश्विनौ । अथ प्रतीकोक्ताः तं प्रत्नथा । अयं वेनः । ये देवासः । आ न इडाभिः विश्वेभिः सोम्यं मधु । ओमासश्चर्षणीधृतः ॥ ४७ ॥
म० कुसीदिदृष्टा गायत्र्याश्विनपुरोरुक् । हे इन्द्र, हे विष्णो, हे मरुतः, हे अश्विना अश्विनौ, नोऽस्माकमेषां सजात्यानां समानजातीयानामधि सजात्यमध्ये यूयमित आगच्छत । अत्र प्रतीकोक्ताः तं प्रत्नथा ( ७ । १२ ) शुक्रग्रहे अयं वेनः (७।१६) मन्थिग्रहे ये देवासः ( ७ । १९) आग्रयणस्य आ न इडाभिः ( ३३ । ३४ ) ध्रुवस्य विश्वेभिः सोम्यं मधु ( ३३ । १० ) ऐन्द्राग्नस्य ओमासश्चर्षणीधृतः (७ । ३३) वैश्वदेवस्य ग्रहणे ॥४७॥

अष्टचत्वारिंशी।
अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवा॒: शर्ध॒: प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो ।
उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒: सर॑स्वती जुषन्त ।। ४८ ।।
उ० अग्न इन्द्र त्रिष्टुप् । हे अग्ने, हे इन्द्र, हे मित्र, 'हे देवाः । शर्धः बलं संगृह्य । प्रयन्त प्रगच्छत । सोमिनो गृहं सोमं पातुम् । हे मारुतगण उत अपि हे विष्णो । प्रत्यक्षकृतोऽयमर्धर्चः। द्वितीयस्तु परोक्षकृतः वाक्यभेदात् । उभा नासत्या उभौ नासत्यौ रुद्रः अध अथ ग्नाः देवपत्न्यः पूषा भगः सरस्वती च जुषन्त सेवन्त यज्ञं सोमपानाय ॥४८॥
म० प्रतिक्षत्रदृष्टा त्रिष्टुप् मरुत्वतीयपुरोरुक् । हे अग्ने, हे इन्द्र, हे वरुण, हे मित्र, हे देवाः, हे मारुत मरुद्गण, उतापि हे विष्णो, यूयं शर्धः बलं प्रयन्त प्रयच्छत दत्त । यमेः शपो लुक् । एवं प्रत्यक्षमुक्त्वा परोक्षमाह । उभा नासत्या उभौ नासत्यावश्विनौ रुद्रः अध अथ ग्नाः देवपत्न्यः पूषा भगः सरस्वती च जुषन्त जुषन्तां सेवन्तां हवींषि ॥४८॥

एकोनपञ्चाशी।
इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑ति॒ᳪ स्व॑: पृथि॒वीं द्यां म॒रुत॒: पर्व॑ताँ२।। अ॒पः ।
हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शᳪस॑ᳪ सवि॒तार॑मू॒तये॑ ।। ४९ ।।
उ०. इन्द्राग्नी मित्रावरुणा । जगती । इन्द्राग्नी च मित्रावरुणौ च अदितिं च स्वः आदित्यं च पृथिवीं च द्यां च मरुतश्च पर्वतांश्च अपश्च हुवे आह्वयामि । विष्णुं च पूषणं च ब्रह्मणस्पतिं च नु क्षिप्रम् शंसं शंसितव्यं सवितारं च हुवे। ऊतये अवनाय ॥ ४९॥
म० वत्सारदृष्टा जगती सशस्त्रमरुत्वतीयपुरोरुक् । इन्द्राग्नी मित्रावरुणौ अदितिम् स्वः आदित्यम् पृथिवीम् द्यां द्युलोकम् मरुतः पर्वतान् अपः विष्णुम् पूषणं ब्रह्मणस्पतिम् भगम् शंसं स्तुत्यं सवितारम् एतान् नु क्षिप्रमूतयेऽवनायाहं हुवे आह्वयामि ॥ ४९॥

पञ्चाशी।
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा॑: ।
यः शᳪस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ२ अ॑वन्तु दे॒वाः ।। ५०।।
उ० अस्मे रुद्राः। त्रिष्टुभः पञ्च । अस्मे अस्माकं रुद्राः मेहनाः सेचनाः यद्वा महनीयाः पूजनीयाः पर्वतासः पर्वताश्च वृत्रहत्ये वृत्रवधे भरहूतौ संग्रामाह्वाने च । सजोषाः समानजोषणा: समानप्रीतयः । एकाभिप्राया भवन्त्विति