पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

अस्मदीयाय भवन्तु । वरिवोविदः वरिवो धनं ये अस्मदर्थं विन्दन्ति ते वरिवोविदः ॥ ९४ ॥
म० मनुदृष्टा वैश्वदेवी । हि स्म एतौ निपातौ प्रसिद्ध्यतिशयार्थौ । छान्दसौ षत्वदीर्घौ। ते प्रसिद्धा विश्वे देवासः अद्य वर्तमानकाले नोऽस्माकं साकं सहैव वरिवोविदः भवन्तु वरिवो धनं वेदयन्ति लम्भयन्ति वरिवोविदः एकीभूय धनप्रापका भवन्तु । तु पुनः अपरं भविष्यति काले नोऽस्माकं तुचे अपत्याय पुत्रपौत्रादिकाय ते वरिवोविदः भवन्तु । तुगित्यपत्यनाम । कीदृशास्ते । मनवे समन्यवः मनुनामकाय मुनये मन्त्रदर्शिने मह्यं समानो मन्युर्दीप्तिर्येषां ते । 'मन्युर्मनतेर्दीप्तिकर्मणः' ( निरु. १० । २९ ) इति यास्कः । मदर्थकमैकमत्यं प्राप्ताः । यद्वा मन्युना क्रोधेन सह वर्तमानाः । अस्मच्छत्रुहननाय क्रोधयुक्ता इत्यर्थः । तथा सरातयः रातिर्दानं तत्सहिताः दातार इत्यर्थः ॥ ९४ ॥

पञ्चनवतितमी।
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ।। ९५ ।।
उ० अपाधमत् । प्रथमोऽर्धर्चः परोक्षकृतः द्वितीयः प्रत्यक्षकृतः अतो वाक्यभेदः पदसंनतिर्वैकस्मिन्नर्धर्चे । अपाधमत् धमतिर्गतिकर्मा । यदा अपगमयति । अभिशस्तीः अभिशापान् अशस्तिहा । अभेरादिशेषः । अभिशस्तिहा स्वतएव । अथानन्तरम् इन्द्रः द्युम्नी अन्नवान् यशस्वी वा आअभवत् भवति । एवं स्तुत इन्द्रः प्रत्यक्षीभूतः । इत उत्तरोऽर्धर्चः प्रत्यक्षकृतः । देवाः ते तव हे इन्द्र, सख्याय सखिभावाय येमिरे आत्मानं संयतं कृतवन्तः । हे बृहद्भानो महादीप्ते हे मरुद्गण, एकवाक्ये तु बहूनां पदानां संनतिः कार्या ॥ ९५॥
म० नृमेधदृष्टे द्वे मरुत्वद्गुणविशिष्टेन्द्रदेवत्ये । बृहन्तो महान्तो भानवो दीप्तयो यस्य स बृहद्भानुः मरुतां गणो यस्य स मरुद्गणः हे बृहद्भानो, हे मरुद्गण हे इन्द्र, देवाः वसुरुद्रादित्याः ते तव सख्याय मैत्रे येमिरे कथं नु नामेन्द्रोऽस्मान्सखिभावाय वृणीत इत्यभिप्राया आत्मानं संयतं कृतवन्त इत्यर्थः । स भवान् अभिशस्तीः अभिशापान् शत्रुप्रयुक्तानपवादान् अपाधमत् अपगमयति निवर्तयति । धमतिर्गतिकर्मा (निरु. ६ । २) इति यास्कः । अथ पश्चात् द्युम्नी अन्नवान् यशस्वी वा आ अभवत् सर्वतो धनवान् भवति । कीदृशो भवान् । अशस्तिहा शंसनं शस्तिः प्रशंसा सा नास्ति येषां ते अशस्तयः निन्द्या असुरास्तान् हन्तीत्यशस्तिहा । इन्द्रः ऐश्वर्यवान् इन्दतीतीन्द्रः । यो दुष्टहन्ताभिशापनाशको यशस्वी तेजस्वी बहुभृत्यसेव्यस्तस्य सख्यायान्ये यतन्त इति युक्तमिति भावः ॥९५॥

षण्णवतितमी।
प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
वृ॒त्रᳪ ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ।। ९६ ।।
उ०. प्र वः प्रथमाबहुवचनस्य वआदेशः । प्रार्चत प्रोच्चारयत वः यूयम् स्तुतीः । इन्द्राय बृहते महते हे मरुतः, ब्रह्म त्रयीलक्षणाः किमितिचेत् । वृत्रं हनति । हन्तीति प्राप्ते शपः श्रवणम् । वृत्रहा वृत्रवधप्रवणः शतक्रतुः बहुकर्मा । वज्रेण शतपर्वणा शतग्रन्थिना ॥ ९६ ॥
म०. हे मरुतः, वो युष्माकं स्वामिने इन्द्राय यूयं ब्रह्म वेदं सामरूपस्तोत्रं प्रार्चत प्रोच्चारयत । कीदृशायेन्द्राय । बृहते महते । ततो वृत्रहा वृत्रस्यासुरस्य पाप्मनो वा हन्तेन्द्रो वृत्रं हनति हन्तु । 'बहुलं छन्दसि' (पा० २। ४ । ७३) इति शपो लुगभावः । केन । वज्रेण स्वायुधेन । कीदृशेन वज्रेण । शतपर्वणा शतसंख्यानि पर्वाणि धारा ग्रन्थयो वा यस्य स शतपर्वा तेन । कीदृशो वृत्रहा । शतक्रतुः शतं क्रतवो यस्य बहुकर्मा बहुप्रज्ञो वा ॥ ९६ ॥

सप्तनवतितमी।
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्य॒ᳪ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।
अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ष्टुवन्ति पू॒र्वथा॑ ।
इ॒मा उ॑ त्वा यस्या॒यम॒यᳪ स॒हस्र॑मू॒र्ध्व ऊ॒ षु ण॑: ।। ९७ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ |
उ० अस्येत् । अस्य इत् इदिति निपातः पादपूरणः । मदे सुतस्य विष्णवि विष्णुर्यज्ञः । यज्ञे अभिषुतस्य मदे संजाते य इन्द्रो वावृधे वृद्धश्च वृष्ण्यं सेक्तृत्वम् शवो बलं च आविष्करोति । तस्यास्य इन्द्रस्य अद्य अद्यापि तं महिमानं आयवः मनुष्याः अनुष्टुवन्ति । पूर्वथा पूर्ववत् यथा पूर्वमृषिभिः स्तुतः । इमा उत्वा यस्यायम् अयᳪ सहस्रम् ऊर्ध्वं उषुणः इति चतस्रः प्रतीकोक्ता व्याख्याताः ॥ ९७ ॥
इति उवटकृतौ मन्त्रभाष्ये त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
म० मेधातिथिदृष्टा माहेन्द्री सतोबृहती । इन्द्रः अस्य इत् अस्यैव यजमानस्य वृष्ण्यं शवः च वावृधे वर्धयति । णिजन्तत्वं | बोध्यम् । वर्षति सिञ्चतीति वृषा तस्येदं वृष्ण्यं वीर्यम् । यप्रत्यये उपधालोपः । शवः बलम् । क्व सति । सुतस्याभिषुतस्य सोमस्य मदे सति । कीदृशे मदे । विष्णवि वेवेष्टि व्याप्नोति विष्णुस्तस्मिन् सर्वशरीरव्यापके । सप्तम्येकवचने 'घेर्ङिति' -- ( पा. ७।३।१११) इति गुणेऽवादेशः । यद्वा विष्णवि विष्णौ योऽभिषुतस्येति संबन्धः । 'यज्ञो वै विष्णुः' इति श्रुतेः। सोमपानेन मत्त इन्द्रो यजमानस्य माहात्म्यं बलं च वर्धयतीत्यर्थः । किंच अस्येन्द्रस्य तमुक्तं यज्वनो वीर्यादिवर्धनरूपं