पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

म० अब्देवत्या गायत्री । देवीः देव्यो दीप्यमाना अपो नोऽस्माकमभिष्टये अभिषेकायाभीष्टाय वा पीतये पानाय च शं सुखरूपा भवन्तु । अस्माकं स्नाने पाने चापः सुखयित्र्यो भवन्तु । आपः शं योः रोगाणां शमनं भयानां यवनं पृथक्करणं च अभिस्रवन्तु । नोऽस्माकं भयरोगनाशं कुर्वन्त्वित्यर्थः १२

त्रयोदशी।
स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒: शर्म॑ स॒प्रथा॑: ।। १३ ।।
उ० स्योना पृथिवीति व्याख्यातम् ॥ १३ ॥
म०. स्योना पृथिवि । व्याख्याता [अ० ३५ । क० २१]
॥ १३ ॥

चतुर्दशी।
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ।। १४ ।।
उ०. आपो हिष्ठेति तिस्रश्च व्याख्याताः ॥ १४ ॥ ॥ १५॥ १६ ॥
म०. आपो हि ष्टा तृचो व्याख्यातः [अ० ११ । क० ५०५२] ॥ १४ ॥ १५ ॥ १६ ॥

पञ्चदशी।
यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ।। १५ ।।

षोडशी।
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।। १६ ।।

सप्तदशी।
द्यौ: शान्ति॑र॒न्तरि॑क्ष॒ᳪ शान्ति॑: पृथि॒वी शान्ति॒राप॒: शान्ति॒रोष॑धय॒: शान्ति॑: ।
वन॒स्पत॑य॒: शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्ति॒: सर्व॒ᳪ शान्ति॒: शान्ति॑रे॒व शान्ति॒: सा मा॒ शान्ति॑रेधि ।। १७ ।।
उ० द्यौः शान्तिः । या द्युलोकरूपा शान्तिः या चान्तरिक्षरूपा शान्तिः । या च पृथिवी । आपः ओषधयः वनस्पतयः विश्वेदेवाः ब्रह्म त्रयीलक्षणं परं वा । सर्वशान्तिः या च शान्तिरेव शान्तिः स्वरूपत एवं शान्तिः । सा। मा मां शान्तिः एधि । अस्त्विति पुरुषव्यत्ययः । त्वत्प्रसादादित्यपेक्षा ॥ १७ ॥
म० यजूंषि संदृशि जीव्यासमित्यन्तानि (क. १९)। एकाधिका शक्वरी । द्यौः द्युलोकरूपा या शान्तिः अन्तरिक्षरूपा च या शान्तिः पृथिवी भूलोकरूपा या शान्तिः आपो जलरूपा या शान्तिः ओषधयः ओषधिरूपा या शान्तिः वनस्पतयः वृक्षरूपा या शान्तिः विश्वेदेवाः सर्वदेवरूपा या शान्तिः ब्रह्म त्रयीलक्षणं परं वा तद्रूपा या शान्तिः सर्वं सर्वजगद्रूपा या शान्तिः शान्तिरेव शान्तिः या स्वरूपतः शान्तिः सा शान्तिः मा मां प्रति एधि अस्तु । पुरुषव्यत्ययः । महावीरप्रसादात्सर्वं शान्तिरूपं मां प्रत्यस्त्वित्यर्थः । यद्वा द्यौरित्यादिषु विभक्तिव्यत्ययः सप्तम्यर्थे प्रथमा। दिव्यन्तरिक्षे पृथिव्यामप्स्वोषधिषु वनस्पतिषु विश्वदेवेषु ब्रह्मणि सर्वस्मिंश्च या शन्तिः सा मां प्रत्यस्त्वित्यर्थः ॥ १७ ॥

अष्टादशी। -
दृते॒ दृᳪह॑ मा मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षन्ताम् ।
मि॒त्रस्या॒हं चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षे ।
मि॒त्रस्य॒ चक्षु॑षा॒ समी॑क्षामहे ।। १८ ।।
उ० दृते दृᳪ ह मा । दृते यजुः । 'दॄ विदारणे' विदीर्णेऽपि शरीरे जरया । दृंह दृढीकुरु माम् । कथमिति चेत् । मित्रस्य मा चक्षुषा सर्वाणि भूतानि सं ईक्षन्तां पश्यन्तु । अहमपि मित्रस्य चक्षुषा सर्वाणि भूतानि समीक्षे पश्यामि । शान्तं हि मित्रस्य चक्षुः । न वै मित्रं कंचन हिनस्ति । न मित्रः कंचन हिनस्तीति । एवमहिंस्यमाना अहिंसन्तश्च परस्परमद्रोहेण सर्वथा मित्रस्य चक्षुषा समीक्षामहे ॥१८॥
म० दृते 'दॄ विदारे' विदीर्णे जराजर्जरितेऽपि शरीरे हे महावीर, मा मां त्वं दॄंह दृढीकुरु । यद्वा दृते विदीर्णे कर्मणि मां दृंह अच्छिद्रं कर्म कुरु । यद्वा ससुषिरत्वात् सेक्तृत्वाच्च दृतिशब्देन महावीरः । हे दृते महावीर, मां दृंह दृढीकुरु । कथं दार्ढ्यं तदाह । सर्वाणि भूतानि प्राणिनो मा मां मित्रस्य चक्षुषा समीक्षन्तां सम्यक् पश्यन्तु मित्रदृष्ट्या सर्वे मां पश्यन्तु नारिदृष्ट्या । सर्वेषां प्रियो भूयासमित्यर्थः । किंच अहमपि सर्वाणि भूतानि मित्रस्य चक्षुषा समीक्षे पश्यामि सर्वे मे प्रियाः सन्तु । मित्रचक्षुः शान्तं भवति । मित्रः कंचन न हन्ति मित्रं च कश्चन न हन्ति एवं परस्पराद्रोहेण सर्वानहिंसन्तो मित्रस्य चक्षुषा वयं समीक्षामहे पश्यामः ॥ १८॥

एकोनविंशी।
दृते॒ दृᳪह॑ मा । ज्योक्ते॑ स॒न्दृशि॑ जीव्यासं॒ ज्योक्ते॑ स॒न्दृशि॑ जीव्यासम् ।। १९ ।।
उ० दृते दृᳪह । यजुः । दृते दृᳪह मा । अतिशयार्थं पुनर्वचनम् । ज्योक् चिरम् ते तव संदृशि संदर्शने । जीव्यासं जीवेयम् । आदरार्थं पुनर्वचनम् ॥ १९॥
म० हे दृते वीर, मां दृंह । आदरार्थं पुनर्वचनम् । हे महावीर, ते तव संदृशि संदर्शने अहं ज्योक् चिरं जीव्यासं जीवेयम् । जीवेराशीर्लिंङि रूपम् । ज्योगिति निपातश्चिरार्थः । | पुनरुक्तिरादरार्था । ते संदृशि ज्योग्जीव्यासम् ॥ १९ ॥