पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

(का० ५। १० । १७) । यजमानसंबन्धिन्यः कुमार्योऽपि पूर्वोक्तपुरुषवदुत्तरेण त्र्यम्बकमन्त्रेणाग्निं त्रिः परियन्ति । त्र्यम्बकं यजामहे । कीदृशम् । पतिवेदनं पतिं वेदयतीति तं भर्तुर्लम्भयितारं 'विद्लृ लाभे । अन्यत्पूर्ववत् । इतो मुक्षीय इतो मातृपितृभ्रातृवर्गान्मुक्षीय मुक्ता भूयासममुतो मा मुक्षीय विवाहादूर्ध्वं भविष्यतः पत्युर्मुक्ता मा भूयासम् । जनकस्य गोत्रं गृहं च परित्यज्य पत्युर्गोत्रे गृहे च सर्वदा त्र्यम्बकप्रसादाद्वसामीत्यर्थः । ‘सा यदि त इत्याह ज्ञातिभ्यस्तदाह मामुत इति पतिभ्यस्तदाहेति' (२ । ६ । २ । १४) इति श्रुतेरितोऽमुतःशब्दाभ्यां पितृपतिवर्गौं ग्राह्यौ ॥ ६० ॥

एकषष्टी।
ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि ।
अव॑ततधन्वा॒ पिना॑कावस॒: कृत्ति॑वासा॒ अहि॑ᳪसन्नः शि॒वोऽती॑हि ।। ६१ ।।
उ० त्र्यम्बकानासजति । एतत्ते रुद्र । एतत् ते तव हे रुद्र, अवसं पथ्यदानं शंबलम् । तेन पथ्यदानेन परः परस्तात् । मूजवान्नामपर्वतः भगवतो रुद्रस्य वसतिः ताम् । अतीहि गच्छ । कथंभूतो गच्छ । अवततधन्वा अवतारितधनुः । पिनाकावसः पिनाको रुद्राङ्कुशः रुद्राङ्कुशकृतकुशलः । कृत्तिवासाः चर्मवसनः । अहिंसन्नः अविनाशयन्नः अस्मान् शिवः शान्तो भूत्वा अतीहि पूजितं गच्छ ॥ ६१ ॥
म० रौद्र्यास्तारपङ्क्तिः । यस्या अन्त्यौ द्वादशाक्षरावाद्यावष्टाक्षरौ पादौ सास्तारपङ्क्तिः । 'मूतयोः कृत्वा वेणुयष्ट्यां वा कूपे वासज्योभयतः स्थाणुवृक्षवᳪशवल्मीकानामन्यतमस्मिन्नुत्क्षेपणवदासजत्येतत्त इतीति' (का० ५। १० । २१)। व्रीहियवादीन् बद्ध्वा वहनार्थं तृणवंशादिनिर्मितः पात्रविशेषो मूतमित्युच्यते । तयोरुभयोर्मूतयोस्त्र्यम्बकान् हविःशेषान् प्रक्षिप्य स्वकीयेनांसेन वोढुं शक्यायां वंशयष्ट्यामग्रद्वये तन्मूतद्वयमवासज्योन्नते स्थाणौ वृक्षे वंशे वल्मीके वा मूतद्वययुतां वंशयष्टिं संसृजति । ततो गोभिराघ्रातुमशक्यत्वाद्गावो रोगं न प्राप्नुवन्तीत्यर्थः ॥ अथ मन्त्रार्थः । मूजवान्नाम कश्चित्पर्वतो रुद्रस्य वासस्थानम् । अवसशब्देन देशान्तरं गच्छतो मार्गमध्ये तटाकादिसमीपे भोक्तव्य ओदनविशेष उच्यते । हे रुद्र, एतत्ते तव अवसं हविःशेषाख्यं भोज्यं तेन सहितस्त्वं मूजवतः पर्वतात्परः परभागवतीं सन्नतीहि अतिक्रम्य गच्छ । कीदृशस्त्वम् । अवततधन्वा अवरोपितधनुष्कः । अस्मद्विरोधिनां त्वया निवारितत्वादित ऊर्ध्वं धनुषि ज्यासमारोपणस्य प्रयोजनाभावादवरोपणमेवेदानीं युक्तम् । तथा पिनाकावसः पिनाकाख्यं त्वदीयं धनुरावस्ते सर्वत आच्छादयतीति पिनाकावसः । यथा धनुर्दृष्ट्वा प्राणिनो न बिभ्यति तथा त्वदीयं धनुर्वस्त्रादिना प्रच्छाद्य गच्छेत्यर्थः । 'कृत्तिवासा इत्यनवेक्षमेत्योपस्पृशन्त्यपः' (का० ५। १० । २२-२३)। ति । उन्नते वृक्षादौ मूतद्वयेऽवसज्य प्रत्यावर्तमाना मूतद्वयस्यावेक्षणमकृत्वा वेदिसमीपे समागत्योदकं स्पृशेयुरिति सूत्रार्थः । मन्त्रार्थस्तु हे रुद्र, त्वं कृत्तिवासाः चर्माम्बरो नोऽस्मानहिंसन् हिंसामकुर्वन् शिवोऽस्मदीयपूजया संतुष्टः कोपरहितो भूत्वा अतीहि पर्वतमतिक्रम्य गच्छ ॥ ६१ ॥

द्विषष्टी।
त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ अस्तु त्र्यायु॒षम् ।। ६२ ।।
उ० यजमानो मुण्ड्यमानो जपति । त्र्यायुषम् । उष्णिक् । लिङ्गोक्ता देवता । त्रीण्यायूंषि समाहृतानि बाल्ययौवनस्थविराणि त्र्यायुषम् । यज्जमदग्नेः त्र्यायुषम् यच्च कश्यपस्य यच्च देवेषु तन्नो अस्तु तदस्माकमस्तु भवतु । त्र्यायुषमित्याशीः ॥ ६२ ॥
म० आशीर्देवतोष्णिक् । यस्याश्चत्वारः पादाः सप्ताक्षराः सोष्णिक् । 'त्र्यायुषमिति यजमानो जपतीति' (का० ५। २ । १६) । सोऽयं जपो वपनकालीनः । जमदग्नेः मुनेर्यत्त्र्यायुषं त्रयाणां बाल्ययौवनस्थाविराणामायुषां समाहारस्त्र्यायुषं तथा कश्यपस्यैतन्नामकस्य प्रजापतेः संबन्धि यत्त्र्यायुषं तथा देवेषु इन्द्रादिषु यत्त्र्यायुषमस्ति तत्सर्वं त्र्यायुषं नोऽस्माकं यजमानानामस्तु । जमदग्न्यादीनां बाल्यादिषु यादृशं चरितं तादृशं नो भूयादित्यर्थः ॥ ६२ ॥

त्रिषष्टी।
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ।
नि व॑र्तयाम्यायु॑षे॒ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।। ६३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां तृतीयोऽध्यायः ॥ ३ ॥
उ० लोहक्षुरमादत्ते । शिवो नामासि । हे क्षुर, यतः त्वं शान्तनामासि । यस्य च तव स्वधितिः पिता । स्वधितिः वज्रः । तस्मै नमः ते तुभ्यं भवतु । मा मां मा हिᳪसीः मा विनाशय । वपति । निवर्तयामि । निपूर्वो वपतिरिह मुण्डनार्थः । मुण्डयामि त्वाम् । आयुरर्थम् अन्नाद्यर्थम् धनस्य पोषार्थम् शोभनापत्यतायै शोभनवीर्याय च ॥६३॥ इति उवटकृतौ मन्त्रभाष्ये तृतीयोऽध्यायः ॥ ३॥
म० क्षुरदैवतं यजुः ‘शिवो नामेति लोहक्षुरमादायेति' (का० ५।२ । १७) । हे क्षुर, त्वं नाम नाम्ना शिवः शान्तोऽसि । स्वधितिः वज्रं ते तव पिता । ते तुभ्यं नमोऽस्तु। मां मा हिंसीः । 'निवर्तयामीति वपतीति' (का० ५।२।