पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्चसो धारयित्रीम् । यज्ञवाहसम् यज्ञस्य वोढ्रीम् । सा च सुतीर्था नोऽसत् यज्ञं प्रति शोभनावतारा अस्माकं भवतु । वशे वश्या भवतु । व्रतं व्रतयति । ये देवाः । अत्राग्निहोत्रसंपदं यजमानः करोति । ये मयि प्राणेषु देवाः मनोजाताः मनसो जाताः । मनःपूर्वका हि तेषु प्रवृत्तिः । मनोयुजः मनसा युज्यन्ते स्वप्नावस्थायामिति मनोयुजः । दक्षक्रतवः क्रतुः संकल्पः तस्यैव समृद्धिर्दक्षक्रतुशरीरा । 'वागेवाग्निः प्राणोदाना मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वेदेवाः' य एते अध्यात्मश्रुतौ पठ्यन्ते त इहोच्यन्ते । ते नः अस्मान् अवन्तु ते अस्मान् पान्तु पालयन्तु तेभ्यश्च स्वाहा सुहुतमस्तु सुहुतमेतद्धविर्भवतु ॥११॥
म० 'व्रतं कृणुतेति वाग्विसर्जनं त्रिरुक्त्वेति' ( का० ७ । ४ । १५)। मौनोपस्थितस्य यजमानस्यैतन्मन्त्रोच्चारणं वाग्विसर्जनसाधनम् । हे परिचारकाः, व्रतं कृणुत दोहनादिना क्षीरं संपादयत । दीक्षितस्य भोजनाय यन्नियतं पयस्तद्व्रतमित्युच्यते । वाक्यावृत्तिरादरार्था । 'अग्निर्ब्रह्मेति च सकृदिति' (का० ७ । ४ । १५)। एतमपि मन्त्रं सकृत्पठेत् । अग्निर्ब्रह्म । ब्रह्मशब्देन वेदत्रयमभिधीयते तस्य वेदत्रयस्याग्नित्वमुपचर्यते । आधानेन निष्पन्नस्य वेदिकस्याग्नेर्वेदव्यतिरेकेणासंभवात् । तस्मादयं श्रौतोऽग्निर्ब्रह्मैव वेदरूप एव । अयमग्निर्यज्ञः तस्य अग्नेर्यज्ञसाधनत्वाद्यज्ञत्वमुपचर्यतेऽग्निर्यज्ञ एवेति । वनस्पतिः यज्ञियः यज्ञयोग्यो यो वनस्पतिः खादिरादिः सोऽपि यज्ञ इत्यनुवर्तते । वनस्पतेर्यज्ञसाधनत्वाद्यज्ञत्वम् । तथाच श्रुतिः 'नहि मनुष्या यजेरन्यद्वनस्पतयो न स्युरिति' (३ । २ । २ । ९) । 'दैवीं धियमिति व्रतायोपस्पर्शꣳ स्वासन इति' (का. ७ । ४ । ३२) । शक्वरी अतिशक्वरी वा । पूर्वार्धेनाचमनम् । वयं धियं मनामहे यज्ञानुष्ठानविषयां बुद्धिं याचामहे । मनामह इति याञ्चाकर्मसु पठितः । किमर्थम् । अभिष्टये अभि समन्ताद्यजनमभिष्टिः । अभिपूर्वस्य यजतेः क्तिनि आदिलोपः । अभिमुखत्वेन प्राप्तस्य यज्ञस्य सिद्ध्यर्थम् । किंभूतां धियम् । दैवीं देवसंबन्धिनीम् । देवतोद्देशेन प्रवृत्तामित्यर्थः । तथा सुमृडीकाम् । सुष्ठु मृडयति सुमृडीका तां शोभनसुखहेतुम् । तथा वर्चोधां वर्चो दधातीति वर्चोधास्तां तेजसो धारयित्रीम् । तथा यज्ञवाहसम् यज्ञं वहति यज्ञवाहास्तां यज्ञनिर्वाहकत्रींम् । तथाविधा धीः सुतीर्था सुखेन तरीतुं प्राप्तुं शक्या सुतीर्था । यद्वा सुष्ठु तीर्थमवतरणमार्गो यस्यां सा । एवंविधा सती नो वशे असत् अस्माकमधीनत्वे भवतु ॥ 'ये देवा इति व्रतयत्यमृन्मय इति' ( का० ७ । ४ । ३३ )। ये देवा ईदृशाः दीव्यन्ति द्योतन्ते त इति । देवाश्चक्षुरादीन्द्रियरूपाः प्राणाः 'वागेवाग्निः प्राणोदानौ मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वेदेवाः' ( ३ । २।२।१३) इति श्रुत्युक्ताः । किंभूताः । मनोजाताः दर्शनश्रवणादीच्छारूपान्मनस उत्पन्नाः । इच्छोत्पत्तौ तेषां प्रवर्तमानत्वात् । तथा मनोयुजः रूपादिदर्शनकालेऽपि मनसा युक्ता एव वर्तन्ते । अन्यमनस्कस्य रूपादिप्रतिभासाभावात् । यद्वा स्वप्नावस्थायां मनसा युज्यन्ते ते मनोयुजः । तथा दक्षक्रतवः दक्षाः कुशलाः क्रतवः संकल्पाः येषां ते । संकल्पितार्थकारिण इत्यर्थः । ते देवाः नोऽस्मानवन्तु यज्ञानुष्ठानविघ्नपरिहारेण पालयन्तु । तेभ्यः प्राणरूपेभ्यः देवेभ्यः स्वाहा इदं क्षीरं हुतमस्तु ॥ ११॥

द्वादशी।
श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवा॑:।
ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नमी॒वा अना॑गस॒: स्वद॑न्तु दे॒वीर॒मृता॑ ऋता॒वृध॑: ।। १२ ।।
उ० श्वात्राः पीता । जगत्याब्दैवत्यया नामिमुपस्पृशति । हे आपः, यूयं श्वात्राः । श्वात्रमिति क्षिप्रनाम । क्षिप्रपरिणामाः । प्रीता भवत अस्माकमन्तर्मध्ये । पुनर्विशिनष्टि उदरे सुशेवाः । शेव इति सुखनाम । सुसुखाः । ता अस्मभ्यम् अयक्ष्माः अनमीवा अनागसः । आग इत्यपराधनाम । अनपराधाः । स्वदन्तु देवीः । 'स्वद स्वर्द आस्वादने देवीरिति निःसंशयं द्वितीयान्तम् । एतत्पदसामानाधिकरण्यात्तु ता इत्येतदादीन्यपि द्वितीयान्तान्येव । ता युष्मान् अस्मभ्यम् अस्मदर्थम् अयक्ष्माः सतीः । यक्ष्मा व्याधिराजस्तद्रहिताः । अनमीवाः । अमीवा व्याधिरेव । आदरार्थं यक्ष्मग्रहणम् । अनागसः अनपराधाः सतीः । आग इत्यपराधनाम । स्वदन्तु । 'स्वद स्वर्द आस्वादने । आस्वादयन्तु । कमादयन्तु । अमृताः प्राणाः वागेवाग्निरित्यादयः। ऋतावृधः सत्यवृधः यज्ञवृधो वा ॥ १२॥
म०. 'श्वात्राः पीता इति नाभिमालभत इति' (का० ७ | ४ । ३५ ) । अब्देवत्या जगती । हे आपः, क्षीररूपा यूयं मया पीताः सत्यः श्वात्राः क्षिप्रपरिणामाः शीघ्रं जीर्णा भवत । श्वात्रमिति क्षिप्रनामाशु अतनं भवति' (निरु० ५।३) इति यास्कः । किंच अस्माकं पीतवतामन्तरुदरे जलपाकस्थाने सुशेवाः शोभनसुखाः भवतेत्यनुवर्तते । सुष्ठु शेवं याभ्यस्ताः । शेवमिति सुखनाम । किंच । तास्तथाविधा आपः अस्मभ्यमस्मदुपकारार्थं स्वदन्तु स्वादुत्वयुक्ता भवन्तु । किंभूतास्ताः । अयक्ष्माः प्रबलरोगराजरहिताः । अनमीवाः सामान्यरोगनिवर्तिकाः । नास्त्यमीवा याभ्यः । अनागसः नास्त्यागो याभ्यः अपराधहारिण्यः । ऋतावृधः ऋतं वर्धयन्ति ता ऋतवृधः । संहितायाम् ऋतस्य दीर्घः । यज्ञवृद्धिहेतवः । देवीः देव्यो द्योतमानाः । अमृताः नास्ति मृतं याभ्यः मरणनिवर्तिकाः । यद्वायमर्थः । ता इति द्वितीयाबहुवचनम् । अमृताः अमरणधर्मिणो देवाः पूर्वोक्ताः प्राणा वागादयस्ता अपः स्वदन्तु आस्वादयन्तु । कीदृशीः। अस्मभ्यमयक्ष्माः अस्मदर्थमस्माकं वा यक्ष्मनाशिनीः । शेषं पूर्ववत् ॥ १२ ॥