पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

देवजातः । यद्वा जाता देवा अस्मादिति देवजातः । निष्ठा 'वाहिताग्न्यादिषु' इति बहुव्रीहौ परनिपातः । केतवे ।। केतुरिति प्रज्ञानामसु पठितम् । प्रज्ञानत्वाय । विज्ञानघनानन्दस्वभावायेत्यर्थः । दिवस्पुत्राय द्युलोकाद्धि सूर्यो विजायते द्युलोकं वा बहुधा त्रायत इति दिवस्पुत्रः सूर्यः । सूर्याय शᳪसत । 'शंसु स्तुतौ' । इत्थंस्वरूपाय सूर्याय ! स्तुतीरुच्चारयत । किमन्यैर्देवताविशेषैः ॥ ३५॥
म०. 'शालां पूर्वेण प्रतिप्रस्थाताग्नीषोमीयं पशुमादाय तिष्ठति कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गं नमो मित्रस्येत्येनमालभ्य वाचयति' (का० ७ । ९ । २१-२२) इति । सौरी जगती सूर्यदृष्टा । द्वादशाक्षरचतुःपादा जगती । अत्र मन्त्रे सूर्यरूपेण सोमः स्तूयते । एवंविधाय सूर्याय नमः । किंभूताय मित्रस्य वरुणस्य । चतुर्थ्यर्थे षष्ठ्यौ । मित्राय वरुणाय मित्रवरुणदेवतारूपेण वर्तमानाय । जगतां हितकारिणे । वृणोतीति वरुणः स्वरश्मिभिर्जगदावृण्वते । चक्षसे चष्टे इति चक्षास्तस्मै । चक्षुष्मते द्रष्ट्रे इत्यर्थः । यद्वायमर्थः मित्रस्य वरुणस्य चक्षसे सर्वजगतो द्रष्ट्रे । मित्रावरुणशब्देन सर्वं जगल्लक्ष्यते । तथा महो महसे तेजोरूपाय 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति विभक्तिलोपः । देवाय द्योतमानाय । तथा दूरदृशे दूरे वर्तमानैः प्राणिभिर्दृश्यत इति दूरेदृक् तस्मै । यद्वा दूरे पश्यतीति दूरेदृक् । देवजाताय देवाद् द्योतमानात्परमात्मनो जायतेऽसौ । देवानुग्रहाय जातो देवजात इति वा । जाता देवा यस्मात्स देवजात इति वा । 'वाहिताग्न्यादिषु' (पा. २ । २ । ३७) इति जातशब्दस्य परनिपातः । केतवे प्रज्ञारूपाय विज्ञानघनाय । केतुरिति प्रज्ञानाम । दिवस्पुत्राय द्युलोकस्य पुत्रवत्प्रियाय । द्युलोकाद्धि सूर्यो जायते । दिवः पुरु त्रायते इति दिवस्पुत्रः। दिवः पालकायेति वा । एवंविधाय सूर्याय तदृतं सत्यमवश्यफलप्रदज्योतिष्टोमरूपं कर्म हे ऋत्विजः, यूयं सपर्यतानुष्ठानेन सपर्यां कुरुत । सपर्यतिः परिचरणकर्मा (निघ० ३ । ५ । ३) सूर्यार्थं यज्ञं कुरुतेत्यर्थः । यद्वा तदृतं सूर्यरूपं सत्यं ब्रह्म सपर्यत परिचरत । किंच शंसत । 'शंसु स्तुतौ' सूर्यप्रीत्यर्थं स्तुतिं कुरुत । शस्त्राणि पठतेत्यर्थः । यागानुष्ठाने तस्यावश्यकत्वादित्यर्थः ॥ ३५ ॥

षट्त्रिंशी।
वरु॑णस्यो॒त्तम्भ॑नमसि वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि वरु॑णस्य ऋत॒सद॑न॒मा सी॑द ।। ३६ ।।
उ०. उत्तम्भनेनोपस्कभ्नाति । वरुणस्योत्तम्भनमसि । वरुणस्य त्वमुत्तम्भनं भवसि नतु शकटस्य । 'उदःस्थास्तम्भोः पूर्वस्य' इति स्तम्भनसकारस्य तकारः । शम्ये उद्वृहति । वरुणस्य स्कम्भसर्जनीस्थः । स्कभ्नोतिः स्कभ्नोतिना समानार्थः । 'अर्ज सर्ज अर्जने' । स्कम्भशब्देनात्र युगमुच्यते । तस्य सर्जनी वशीकरण्यौ स्कम्भसर्जनी वरुणस्य युवां स्कम्भसर्जनी शम्ये स्थः भवथः । आसन्दीमभिमृशति। वरुणस्य ऋतसदनी सत्यसदनी त्वं भवसि । कृष्णाजिनमस्यामास्तृणाति । वरुणस्य ऋतसदनमसि । वरुणस्य सत्यसदनं त्वं भवसि । सीदन्त्यस्मिन्निति सदनम् । तस्मिन्सोमं निदधाति । वरुणस्य ऋतसदनं सत्यसदनं । आसीद उपविश ॥ ३६॥
म० 'समीपेऽन उपस्थाप्योत्तम्भनेनोपस्तभ्नाति वरुणस्योत्तम्भनमितीति' (का० ७ । ९ । २५) । पञ्च यजूंषि वारुणानि । हे काष्ठ, त्वं वरुणस्योत्तम्भनमसि वस्त्रबद्धस्य सोमस्योन्नमनं भवसि नतु शकटस्येत्यर्थः । उतभ्यते शकटमुखाग्रमुन्नतत्वेन स्थाप्यते यस्मिन् काष्ठे तत्काष्ठमुत्तम्भनम् । 'शम्ये चोद्वृहति वरुणस्य स्कम्भसर्जनी स्थ इतीति' ( का० ७ । ९ । २६) । शकटयुगे बद्धयोर्बलीवर्दयोर्गलबहिर्भागे काष्ठनिर्मिते शम्ये स्थाप्येते । ताभ्यां वृषयोरितस्ततो गमनं निवार्यते ततस्ते स्कम्भसर्जनीशब्देनोच्यते । हे शम्ये, युवां वरुणस्य स्कम्भसर्जनी स्थः । 'स्कम्भ रोधने' । 'सर्ज अर्जने' स्कम्भनं स्कम्भो रोधः स सर्ज्यते क्रियते याभ्यां ते स्कम्भसर्जन्यौ । विभक्तेः पूर्वसवर्णः । व्रियते वेष्ट्यते वस्त्रादिनेति वरुणशब्देनात्र वस्त्रबद्धः सोम उच्यते । वरुणदैवतत्वाच्च पञ्चस्वपि मन्त्रेषु । 'औदुम्बरीमासन्दीं नाभिदघ्नामरत्निमात्राङ्गीमुता (१) माहरन्ति चत्वारोऽभिमृशन्त्येनां वरुणस्य ऋतसदन्यसीतीति' (का० ७ । ९ । २७-२८)। हे आसन्दि, त्वं वरुणस्य सोमस्य संबन्धिनी ऋतसदन्यसि ऋताय यज्ञाय सद्यते उपविश्यते यस्यां सा ऋतसदनी । 'करणाधिकरणयोः-' (पा० ३ । ३ । ११७) इति ल्युप्रत्ययः । ऋतं यज्ञस्तन्निष्पत्त्यर्थमुपवेशनस्थानभूतासीत्यर्थः । 'कृष्णाजिनमस्यामास्तृणाति वरुणस्य ऋतसदनमसीतीति' (का० ७।९।२९) हे कृष्णाजिन, वरुणस्य बद्धस्य सोमस्य ऋतसदनं यज्ञार्थमुपवेशनस्थानमसि । 'तस्मिन्सोमं निदधाति वरुणस्य ऋतसदनमासीदेतीति' (का. ७ । ९ । ३०) । हे सोम, त्वं वरुणस्य वस्त्रबद्धस्य तव ऋतसदनं यज्ञार्थमुपवेशनस्थानभूतमासंदीसंस्थितं कृष्णाजिनमासीद सुखेनोपविश ॥ ३६ ॥

सप्तत्रिंशी।
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् ।
ग॒य॒स्फ़ान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ।। ३७ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां चतुर्थोऽध्यायः।।४।।