पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

६ । २। ८) व्याख्यातं यजुः । 'यूपावटं परिलिखतीदमहमिति' ( का० ६ । २ । ८) एतदपि व्याख्यातम् । ‘यवोऽसीत्यप्सु यवानोप्येति' ( का० ६।२।१५)। यवदेवत्यम् । हे धान्यविशेष, त्वं यवोऽसि यौति पृथक्करोतीति यवः अस्मत् द्वेषो द्वेष्टॄन् शत्रून् द्वेषो दौर्भाग्यं वा अस्मत् अस्मत्तो यवय पृथक्कुरु । तथा अरातीः अदानानि च यवय पृथक्कुरु । अनेन सोभाग्यं धनं च प्रार्थ्यत इति भावः । 'प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रं प्रोक्षामीति सर्वत्र साकाङ्क्षत्वादिति' (६ । २ । १५-१६) । तत्र प्रथमो मन्त्रः । हे औदुम्बर्यग्रभाग, दिवे द्युलोकप्रीत्यर्थं त्वा त्वां प्रोक्षामीति शेषः । द्वितीयः । हे मध्यभाग, अन्तरिक्षायान्तरिक्षलोकप्रीत्यै त्वां प्रोक्षामि । अथ तृतीयः । हे मूलभाग, पृथिव्यै पृथिवीप्रीत्यै त्वां प्रोक्षामि । 'अवटे शेषमासिञ्चति शुन्धन्तामिति' (का० ६ । २।१७ ) द्वे यजुषी पित्र्ये । पितरः सीदन्ति येषु लोकेषु ते पितृषदनाः लोकाः शुन्धन्तामनेनोदकसेचनेन शुद्धा भवन्तु । खननेनोत्पन्नस्य क्रौर्यस्य शान्त्यर्थमिदमुदकसेचनम् । तदाह तित्तिरिः 'क्रूरमिव वा एतत्करोति यत्खनति यत्पयोऽवनयति शान्त्यै तदिति' । 'बर्हीᳪषि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति' (का० ६ । २ । १८) । तस्मिन्नवटे प्रागग्रानुदगग्रांश्च दर्भानास्तृणातीति सूत्रार्थः । पितरः सीदन्त्युपविशन्ति यस्मिन् तत्पितृषदनम् । हे बर्हिः, त्वं पितृषदनमसि ॥ २६ ॥

सप्तविंशी।
उद्दिव॑ᳪ स्तभाना॒न्तरि॑क्षं पृण॒ दृᳪह॑स्व पृथि॒व्याम् द्यु॑ता॒नास्त्वा॑ मारु॒तो मिनो॑तु मि॒त्रावरु॑णौ ध्रु॒वेण॒ धर्म॑णा ।
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृᳪह क्ष॒त्रं दृ॒ᳪहायु॑र्दृᳪह प्र॒जां दृ॑ᳪह ।। २७ ।।
उ० उच्छ्रयति । उद्दिवᳪस्तभान। दिवं द्युलोकं स्तम्भय । आअन्तरिक्षं पृण 'पॄ पालनपूरणयोः' । आपृण आपूरयान्तरिक्षम् । दृᳪहस्व पृथिव्याम् । द्वितीयार्थे सप्तमी । दृढीकुरु पृथिवीम् । यद्वा पृथिव्यामवस्थिता पृथिवीं दृढीकुरु । मिनोति । द्युतानः त्वा । द्युतानो दीप्यमानः त्वां मारुतो वायुः मिनोतु । 'डुमिञ् प्रक्षेपणे' । प्रक्षिपतु । मित्रावरुणौ च मिनुतां ध्रुवेण स्थिरेण धर्मणा धारणेन । पर्यूहति ब्रह्मवनि । 'छन्दसि वनसनरक्षिमथाम्' इतीन्प्रत्ययः । ब्रह्म वनोति ब्रह्मवनि । ' अविभक्तिको निर्देशः । क्रियाविशेषणतया पर्यूहणाविशेषणतया वा नपुंसकलिङ्गत्वम् । ब्रह्मवनि त्वाम् । क्षत्रवनि त्वाम्। क्षतं वनोति क्षत्रवनि । एवं रायस्पोषवनि त्वाम् , धनपोषवनि त्वां पर्यूहामि । 'उह वितर्के' परिपूर्वः पूरणार्थः । पर्यषति । ब्रह्मादीनि दृᳪह दृढीकुरु । ब्रह्मा इति व्याख्यातम् ॥ २७ ॥
म० 'उद्दिवमित्युच्छ्रयतीति' (का० ८।५। ३३) - उच्छ्यणमूर्ध्वाग्रत्वेन स्थापनम् । पञ्च यजूंष्यौदुम्बरीदेवत्यानि । हे औदुम्बरि, त्वं दिवं द्युलोकमुत्तभान स्तम्भय ऊर्ध्वः सन् यथा न पतति तथा कुर्वित्यर्थः । अन्तरिक्षं पृण पूरय । पृथिव्यां दृंहस्व दृढा भव । पृथिव्यामिति सप्तमी द्वितीयार्थे । पृथिवीं दृढीकुरु । 'द्युतान इति मिनोतीति' (का० ८।५। ३४) । शाखां गर्ते प्रक्षिपतीति सूत्रार्थः । हे औदुम्बरि, | द्युतानः दीप्यमानो मारुतो वायुः ध्रुवेण स्थिरेण धर्मणा धारणेन त्वां मिनोतु गर्ते प्रक्षिपतु 'डुमिञ् प्रक्षेपे' स्वादिः । तथा मित्रावरुणौ देवौ ध्रुवेण धर्मणा त्वां प्रक्षिपतामिति शेषः । 'पर्यूहणाद्योपसेचनात्कृत्वेति' (का० ८ । ५। ३५) । पर्यूहणमारभ्योपसेचनपर्यन्तं यथा यूपे कृतं तथात्रापि कुर्यादित्यर्थः । । तत्र यूपस्थाने 'ब्रह्मवनि त्वेति पाᳪसुभिः पर्यूहतीति' (का. । ६ । ३ । १०)। हे औदुम्बरि, त्वा त्वां पर्यूहामि परितो मृत्तिकां क्षिपामि । किंभूतां त्वाम् । ब्रह्मवनि ब्रह्म ब्राह्मणजातिं वनति संभजत इति ब्रह्मवनिः । क्षत्रं क्षत्रियजातिं वनतीति क्षत्रवनिः । रायो धनस्य पोषं पुष्टिं वनतीति रायस्पोषवनिः । सर्वत्र 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति विभक्तेर्लुक्। 'ब्रह्म दृᳪहेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूषतीति' (का. ६। ३ । ११) । परितो दृढीकुर्यादिति सूत्रार्थः । हे औदुम्बरि, ब्रह्म ब्राह्मणजातिं क्षत्रं क्षत्रियजातिमायुः जीवनं प्रजां पुत्रादिरूपां च दृंह दृढीकुरु ॥ २७ ॥

अष्टाविंशी।
ध्रु॒वासि॑ ध्रु॒वोऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात् ।
घृ॒तेन॑ द्यावापृथिवी पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छा॒या ।। २८ ।।
उ०. आलभ्य वाचयति । ध्रुवासि । यथा त्वं ध्रुवासि स्थिरासि एवमयं यजमानो ध्रुवः शाश्वतः अस्मिन्नायतने अस्मिँल्लोके प्रजया वा पशुभिर्वा भूयात् । विशाखे जुहोति । घृतेन द्यावापृथिवी घृतेनानेन हे द्यावापृथिव्यौ युवां पूर्येथाम् । सदसि छदिरधि निदधाति । इन्द्रस्य छदिर्भवसि । सर्वजनानां छाया । 'विश्वगोत्रा ह्यस्मिन् ब्राह्मणा आसत' इति श्रुतिः ॥ २८॥
म० 'धुवासीति वाचयत्यौदुम्बरीमालम्भ्येति' ( का० ८ । ५। ३५)। आलम्भनं स्पर्शनम् । हे औदुम्बरि, त्वं ध्रुवासि स्थिरा भवसि । त्वमिवायं यजमानोऽस्मिन्नायतने स्वकीये गृहे ध्रुवो भूयात् प्रजया पुत्रादिकया पशुभिः गवादिभिश्च सह स्थिरोस्तु । 'स्रुवेण विशाखे जुहोति घृतेनेति' (का. ८ । ५। ३७) । औदुम्बर्या विशाखे यस्मिन्प्रदेशे द्विधा शाखोत्पत्तिस्तत्र जुहुयादिति सूत्रार्थः । हूयमानेनानेन घृतेन द्यावापृथिवी द्यावापृथिव्यौ पूर्येथां पूरिते भवताम् । 'इन्द्रस्य छदि