पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

E भूमिका निमित्तमायामनिभालने विभो-भूविधास्था धिगिति स्वलद्गते" -(स. १२, श्लो. १६४) "मेदखिन खेदमह महात्मन् ! चकार कामं मम तत् क्षमख" -(स.१७, श्लो. ३६६.) अब 'जग्राह' 'वभूव' 'बभूचित्र 'चकार' इत्युत्तमपुरुपे परोक्षप्रयोगोऽसमी- मानः । उक्तं च 'परोक्षे लिद (पा०३-२-११५) इति श्रीपाणिनिकृताष्ट्राध्या- यीसूत्रस सिद्धान्तकौमुदीसज्ञकच्याख्यायो २७७वमेधे- "उत्तमपुरुपे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप, बहु जगद पुरस्तात् तस्य मत्ता किलाहम् ।" "देवीगणे गुरुसुदा धवलाद् ददाने, तेपां समं करसरोरुहमोक्षणेन | मोक्ष शचीपतिरचीकरदन्चलानां, यन्धो बभूव सुमहान् मनसां मिथस्तु॥१०॥" इति नयमसर्गगते पद्ये 'अचीकरत्' इति प्रेरकप्रयोग औचित्यं न वहति । एवं सत्यपि, उक्तदोपेषु यतिमङ्गात्मकस्थ च्छन्दोदूपणस्य कैश्चिद् दोपरूपतया:- नगीकृतत्वेन, घ्याकरणसाहित्यशास्त्रादिविषयकदूषणानां केषाञ्चनानित्यत्वेन, केपाश्चित् कैरपि दोषरूपेणानभ्युपगतत्वेन, कतिपयानां निरोधीव प्रायोऽशक्य- नयाऽवश्यपातेन, शेषाणां च फवे रभसप्रवृत्त्या निरङ्कुशतया वा प्रयुकानां क्षन्तव्यत्वेन भवति परिहारः समस्तानामपि दोषाणाम् । स तु दोपाणामत्यन्ता- भावस्य द्रविडप्राणायामवत् कृच्छ्रसाध्यत्वेन, दोषाणामीपरसद्धावस्याप्यरुचि- अस्ततया च सहृदयहृदयानां हृदयङ्गमतामावहति न वेति प्रश्नः । किंच न चैवंविधदोषाणामिहचोपलब्धिः । एतत्पूर्वापरेषु च समानजातीयेषु (काव्येषु तस्कर्वणी कवीश्वराणां प्रमादशब्दाभिधेयं प्रवर्तनं न्यूनाधिकरूपेण दृष्टिपथमवतरति । अत एवं साधु प्रोक्तं कविनाऽपि सता सता धुरीणेन श्रीनपचन्द्राचार्येण स्वकीये हम्मीरमहाकाव्ये (स. १४)- प्रायोऽपशब्दादिकृतोपि दोपो, म चिन्वनीयो मम मन्दबुद्धः। नकालिदासादिभिरप्यपास्तो, योऽवा कथं वात्तमहं त्यजामि ॥३८॥" १ उक्तं च साहित्यदर्पणे काव्यलक्षणप्रसो यदुत "तसादच्यातिरक्षणा दोष"। २ सन्तुल्यता या प्रोक्तं वैनचन- "अपशब्दात माये, मारवी तु शंतनयम् । यालिदासे न गायन्ठे, कविरेको धनमयः।।"