पृष्ठम्:श्रीपरात्रिंशिका.pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
परात्रिंशिका

इति व्यवहरति प्रमाता । कलकलमात्रविषयमेव तु संकलनमिति तत्रैव श्रुतमिति व्यवहारः । वस्तुतस्तु स कलकलध्वनिः श्रोत्राकाशे अनुप्रविशन् न वर्णान् अनुप्रवेशयन् तथा भवेत् तद्वर्णातिरिक्तस्य कलकलस्यैव भा[१]वात्, तद्वर्णविशेषविवक्षायां च कलकलस्य च कारणाभावादेव अनुत्पत्तिः स्यात् - तद्विवक्षोत्पन्नस्फुटवर्णमयशब्दकार्यत्वेपि सजातीयशब्दोत्पत्त्यनुपपत्तेः । सर्वथा त एव वर्णाः तेन स्फुटरूपेण संकलनामगच्छन्तः कलकलशब्दवाच्याः तत्संकलनावधानोद्युक्तस्य भवेदेव कि-


पं० ३ ख० पु० स इति नास्ति ।

पं० ५ ख० पु० कलकलस्यैव अभावादिति पाठः।

पं० ७ ख० पु० अनुपपत्तिरिति पाठः ।

पं० ८ क० पु० शब्दोत्पत्त्युपपत्तेरिति पाठः ।

पं० ११ क० पु० संकल्पनाधानोयुक्तस्य भवेदपि कियदिति पाठः ।


  1. 'तस्मादेकः क्रमविरहितः कल्पितासत्यभागो
     वाक्यस्फोटो जनयति मतिं तादृशि स्वाभिधेये ।
    वर्णास्ते ते प्रकृतिलघव: कल्पनैकप्रतिष्ठा-
     स्तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥'

    इति स्फोटवादो वैयाकरणैरुपगतः।