पृष्ठम्:श्रीपरात्रिंशिका.pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

यन्मात्रस्फुटोपलम्भ इति संकलनमेव अत्र उपयोगि। संकलनंच भगवती सैव परा परमेश्वरी करोति । यदुक्तम्

'तदाक्रम्य बलं मन्त्राः (स्प० २-१०)

इत्यादि । वस्तुतो हि शृणोति पश्यति वक्ति गृह्णाति इत्यादि भगवत्या एव रूपम् । यथोक्तम्

'येन रूपं रसं गन्धं स्पर्शशब्दौ च मैथुनम् ।
एतेनैव विजानाति किमत्र परिशिष्यते ।।'
    (कठ० उ० २-३)

इति वेदान्ते परमेश्वरेण । न तु श्रवणं नाम स्फुटकलकलात्मकतारगद्गदादिरूपवर्णाकर्णनमेव । तथाहि - श्रीपरमेश्वर एव श्रीस्वच्छन्दशास्त्रे जपविभागनिर्णयावसर एवमेव निरूपितवान्

'आत्मना श्रूयते यस्तु स उपांशुरिति स्मृतः।'

अत्र हि मध्यमापदे आत्मैव संशृणुते नापरः


पं० क० पु० संकल्पनमेवेति, ख० पु० स्फुटोपयोगि इति च पाठः।

पं० २ ख० पु० परापरा परमेति पाठः ।