पृष्ठम्:श्रीपरात्रिंशिका.pdf/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
परात्रिंशिका

इत्युक्तम्, स्थानादिप्रयत्नस्फुटतायां दन्तौष्ठपुटादिसंयोगविभागेन अतिनिभृतमपि शब्दोच्चारे निकटतरवर्तिपरश्रवणमपि स्यादिति सशब्दतापत्तिरेव ।

'परैः संश्रूयते यस्तु सशब्दोऽसौ प्रकीर्तितः।'

इत्युक्तम् , यतः न चात्र निकटादिविशेषः कश्चित् इति । परप्रमातृदर्शनमात्रगोचरजिह्वेष्टपुटादिसंयोगे तु यद्यपि आत्मन एव श्रवणं स्यात् न परस्य, तथापि मध्यमापदमेव एतत् संपद्यते - वर्णस्य बहिरात्मलाभाभावात् । वायवभिघातात् हि स्फुटवर्णनिष्पन्न एव, न च तत्र वाय्वभिघातो वाह्यतापत्तिपर्यन्तः स्यात् । ओष्ठादिचलनमपि न तत्र वर्णाशेऽनुप्रविशेत्, अपि तु स्वात्मनिष्ठमेव तात्कालिकं तत्स्यात् , तात्कालिकेङ्गितनिमिषित-


पं० ३ क० पु० सशब्दापत्तिरेवेति, ग० पु० इति शब्दतापत्तिरेवेति पाठः ।

पं० ६ ख० पु० निकटानिकटेति पाठः ।

पं० १३ ख० पु० वर्णाशे न प्रविशेदिति पाठः ।