पृष्ठम्:श्रीपरात्रिंशिका.pdf/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

करव्यापारादिस्थानीये स्फुटस्थानकरणप्रयत्नयोगे तु वर्णनिष्पत्तावपि यदि नाम ध्वनीनां तारतम्येन तारमन्द्रादिविभागे दूरादूरादिश्रवणं स्यात्, सर्वथा परैः श्रूयते-इति वैखरीपदमेव एतत्, इत्यलं प्रसक्तानुप्रसक्त्या । सै[१]व परमेश्वरी आमन्त्रणयोगेन स्फुटं शक्तिरूपतयोक्ता, नर[२]-शक्ति-शिवात्मकं हि इदं सर्वं त्रिकरूपमेव, तत्र यत् केवलं स्वात्मनि अवस्थितं तत् केवलं जडरूपयोगि


पं० १ ग० घ० पु० व्यापारादिस्थानीयमिति पाठः।

पं० ३ क० पु० तारतम्येतरेति , ग० पु० दूरदूरादीति च पाठः ।

पं० ५ ख० ग० पु० प्रसक्त्यनुप्रसक्त्येति पाठः ।

पं० ७ क० पु० शक्तिमत्तयोक्त्येति पाठः ।


  1. श्रवणलक्षणा ।
  2. 'स्फुटं शक्तिरूपतया उक्ता' इत्येव सविचारं स्फुटयति-नरशक्तीत्या-दिना, तत्र भेदप्रधानो नरः, भेदाभेदप्रधाना शक्तिः, केवलमभेदप्रधानः शिव इति । यदुक्तं

    'विभागाभासने चास्य विधा वपुरुदाहृतम् ।'

    इति । इच्छा-ज्ञान-क्रियास्वरूपमन्न सुबोध सृष्टिक्रमेण ।