पृष्ठम्:श्रीपरात्रिंशिका.pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
परात्रिंशिका

मुख्य[१]तया नरात्मकं घटः तिष्ठ[२]ति इतिवत् , एष एव प्रथमपुरुषविषयः शेषः। यत् पुनरिद-मित्यपि भासमा[३]नं, यदामन्त्र्यमाणतया आमन्त्रकाहंभावसमाच्छादिततद्भिन्नेदंभावं युष्मच्छब्दव्यपदेश्यं तच्छाक्तं रूपं, त्वं तिष्ठसि इत्यत्र हि एष एव युष्मच्छब्दार्थः, आमन्त्रणतत्त्वं च। तथाहि यथा अहं तिष्ठामि तथैव अयमपि इति, तस्यापि अस्मद्रूपावच्छिन्नाहंभावचमत्कारस्वातन्त्र्यमविच्छिन्नाहंचमत्कारेणैव


पं० ८ क० पु० अहंभावचमत्कारेणैव अभिमन्वान इति पाठः ।


  1. मुख्यतयेत्यस्यायमभिप्रायः - यज्जडं स्वात्मनि अलब्धसत्ताकमेव परमार्थतः प्रकाशलग्नमेव इदानी तावत्ताटस्थ्येन भासमानतया मुख्यतो जडमित्यर्थः ।
  2. घट इति सविकल्पकं ज्ञानम्,इदमिति निर्विकल्पमित्यनयोविशेषः
  3. 'इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता।
    या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥'

    इति । तथा

    'घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
    परेशशक्तिरात्मेव भासते न विदन्तया ।।'

    इति। तन्नायं विवेक:-ये पुनर्नामरूपे ते भेदहेतुभूततया नरात्मके, यत्पुनरिदमित्यध्यवसायशक्तिः सा अभेदतया शक्तिस्वरूपा, यत आरमेव इयमभिन्ना-प्रहन्ताच्छादितस्वात् ।