पृष्ठम्:श्रीपरात्रिंशिका.pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
परात्रिंशिका

सर्वत्र अहमिति परिमितं शरीरादि अपदिश्यते तस्य प्रत्यक्षेणैव ताद्रूप्यविरोधात् । तदेवमीदृशं स्वयंप्र[१]थात्मकं शिवात्मकं रूपम्, अत एव बोधस्यास्य स्वसंवित्प्रथात्मकस्य किंचिन्न ऊनं नाप्यधिकं[२]-तस्याप्रकाशरूपस्य चिन्मये अननुप्रवेशा[३]त् , तदपेक्षया च माध्यस्थ्यमपि न किंचित् - इत्युपचयाप[४]चयमध्यस्थानीयेदन्तानिर्देश्याभावलब्धप्रतिष्ठाने न प्रभवन्ति तहोधाविच्छेदरूपास्मदर्थाः, विच्छेदितोऽपि युष्मदर्थ एवमेवेति, अत एव 'अलिङ्गे युष्मदस्मदी' गीते। देहगतसंख्याद्युपचारेण परापरादि शक्तिगर्भीकारात् संख्यायोगस्तु उपपद्यते,


पं० ३ ग० पु० स्वयंप्रकाशात्मकमिति पाठः ।

पं० १ क० पु० चिन्मयानुप्रवेशादिति पाठः ।


  1. स्वयंप्रकाशात्मकं, न तु नररूपशक्तिरूपभेदभेदाभेदतया प्रकाशाधीममित्यर्थः।
  2. भेदाभेदरूपम् ।
  3. प्रकाशरूपस्य पुनः चिरस्वरूपेऽनुप्रवेशादिस्यर्थसिद्धम् ।
  4. उपचयः प्रकाशे, अपचयः घटे, माध्यस्थ्यं युष्मदि इति ।