पृष्ठम्:श्रीपरात्रिंशिका.pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
परात्रिंशिका

यापि प्रतीतिसद्भावात् त्यक्तशाक्तरूपस्यापि च अहंरूपशिवात्मकत्वमपि स्यात् । वयस्ये दयिते शरीरचित्तत्त्वमेव, अहं भवामि इति प्रत्ययात् शिवस्वरूपमपि च उज्झितचिद्रूपमिव नरशक्त्यात्मकं वपुराविशत्येव । कोऽहम्, एषोऽहम्, अहो अहं, धिक् माम्, अहो मह्यम् इत्यादौ हि अहमिति गुणीकृत्याविच्छिन्नं स्वातन्त्र्यं, मुख्यतया तु विच्छिन्नैव इदन्ता प्रतीयते यत्र भगवत्या अपराया उदयः, हे अहम् इत्यादौ परापरशाक्तस्पन्दस्पर्श एव शिवस्य, किं तु पूर्वं पूर्वमठयभिचरितमुत्तरत्र, तेन नररूपं स्फुटयैव प्रतिपरया शाक्त-शांभवधुरमा-रोढुं शक्नुयादेव, न पुनर्वैपरीत्येन आरोहणं स्फुटप्रतीतिमयम् अत्यक्तनिजनिजरूपतया


पं. ग. पु. प्रतीतिसंभवात् इति पाठः ।

पं. २ ख. पु. अहमिति शिवारमस्वमपि, वयस्यऽदयिते च इति पाठः।

पं. ७ क. ग. पु० गुणीकृतमविच्छिन्नम् इति पाठः ।

पं. ग. पु. विचित्रैवेदन्ता इति पाठः ।