पृष्ठम्:श्रीपरात्रिंशिका.pdf/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

त्र्यात्मकत्वात् एक-द्वि-बहुरूपभागित्वमेति प्रत्येकमेतत् त्रिकम् । उक्तं हि

'एक वस्तु द्विधा भूतं द्विधा भूतमनेकधा ।'

इति, एकात्मकत्वे हि अप्रतियोगित्वात् शिवताप्रतियोगिसंभवे शाक्तत्वम् , अनेकतायां भेद एव नरात्मभाव एकस्यैव घटः घटौ घटाः घटपटपाषाणा इत्यपि हि तिष्ठति तिष्ठतः तिष्ठन्ति इति च एकेनैव क्रियाशक्तिस्फुरितमेव एतत्य, थोक्तं

'अनेकमेकधा कृत्वा को न मुच्येत बन्धनात् ।'

इति। अत एव नर-शक्ति-शिवात्मनां युगपदेकत्र परामर्शे उत्तरोत्तरस्वरूपानुप्रवेश एव-तस्यैव वस्तुतः तत्परमार्थरूपत्वात् , स च त्वं च तिष्ठथः, स च त्वं च अहं च तिष्ठामः इति प्र-


पं० ६ ख० पु० नरात्मकभाव इति पाठः ।

पं० ८ ग० पु० ऐक्येनैव क्रियाशक्तिस्फुरणमेतत् इति पाठः ।

पं० ख० पु० एकत्रापरामर्श इति पाठः ।

पं० १२ ख० पु० उत्तरोत्तरानुत्तरस्वरूपेति पाठः ।