पृष्ठम्:श्रीपरात्रिंशिका.pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
परात्रिंशिका

तीतिक्रम एव अकृतकसंस्कारसारः शाब्दिकैर्लक्षणैरनुगम्यते, तथा च निजभाषापदेष्वपि संस्कारस्य यत्र नामापि न अवशिष्यते बौद्धान्द्रद्रविडादिषु तत्रापि अयमेव वाचनिकः क्रमः, वचनक्रमश्च हार्दीमेव प्रतीति मूलतोऽनुसरन् तत्प्रतीतिरसरूपतया प्रतीतेरपि एवंरूपत्वमवगमयेत्, यथोक्तं मयैव

"...न हृदयंगमगामिनी गीः।'

इति । तत् सर्वथा अकृतका एवंप्रतीतिः, यथोक्तम्

'न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः।'

इति । श्रीमालिनीतन्त्रेऽपि ।

'एवं सर्वाणुसंघातमधिष्ठाय यथा स्थिता ।
तथा ते कथिता शंभोः शक्तिरेकैच शांकरी ॥'

इति । श्रीतन्त्रसमुच्चयेऽपि

'नर-शक्ति-शिवावेशि विश्वमेतत्सदा स्थितम् ।
व्यवहारे क्रमीणां च सर्वज्ञानां च सर्वशः।'


पं० १ ग० पु० प्रातीतिकक्रम इति पाठः ।

पं० ७ ख० पु० रूपत्वमेव गमयेत् इति पाठः ।

पं० ६ क० ग० पु० अकृतकैवेयं प्रतीतिरिति पारः ।