पृष्ठम्:श्रीपरात्रिंशिका.pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
श्रीमदाभिनवगुप्ताचार्यकृतव्याख्योपेता


इति। तदेव नरशक्तिशिवात्मकं स्फुटप्रतिपत्ति- संप्रदायोपदेशेन दर्शितं, नरः शक्तिः शिव इ- ति तु सर्वंसहः प्रतिपत्तिक्रमः परमेश्वरेच्छा- स्वातन्त्र्यसृष्टः, इत्यलं परशक्तिपातपवित्रि- तवहुश्रुतसंहृदयसोपदेशकतिपयजनहृदयहा- रिण्या प्रसक्तानुप्रसक्त्या। तत् व्याख्यातं 'शृ- णु देवि' इति । 'उत्तरस्यापि' इति, यदुक्तं -क- थमनुत्तरमिति, तत्र प्रतिवचनम् - उत्तरस्या- पि संनिहितस्य यत् अनुत्तरं,प्रागुक्तक्रमेण हि उत्तरमपि अनुत्तरतादात्म्येनैव भवेत् नान्यथा, अत एव उत्तरमपि अनादृत्य 'अनादरे पष्टी' उत्तरं रूपं हि अनादृततद्भावमनुत्तररूपमेव, भेदो हि अयमुत्तररूपो नितरामेव अभेद-


१।सहृदया इति रसिकश्रोतारः । कतिपयेति, तथा चोक्तम् 'पूजका: शतशः सन्ति भक्ताः सन्ति सहस्रशः । प्रसादपात्रमाश्वस्ता द्विवाः सन्ति न पञ्च्पाः ।' इति ।

२।अनाद्दतोत्तरभावम्


पं. १ ख. पु. तदेतदेव इति पाठः ।

पं १३ ख. पु. उत्तररूपोऽनुत्तरामेव इति पाठः ।