पृष्ठम्:श्रीपरात्रिंशिका.pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
परात्रिंशिका


भुवमधिशय्य तथा भवेत् । यथोक्तं

 'परव्यवस्थापि परे यावन्नात्मीकृतः परः ।
  तावन्न शक्यते कर्तुं यतोऽबुद्धः परः परः ॥'

'इति । तथा उत्तरस्यापि ग्रन्थभागस्य अनुत्त- रं तेनापि उत्तरीतुं न शक्यते । पश्यन्त्या'


१ अधिशय्य-श्राश्रित्य । तथा-भेदरूपतया ।

२ परव्यवस्था - भेदनियमः । परे-भिन्नपदार्थे ।

३ उत्तरस्यापीति वचयमाणस्य । अनुत्तरम् - उत्तीर्णम् ।

४ पश्यन्त्या अपीति विमर्शसतत्त्वं हि प्रकाशतत्त्वं स एव विमर्श प्रथमप्रसररूपः । यदुक्तम्

 'अविभागा तु पश्यन्ती सर्वतः संहतक्रमा ।

  स्वरूपज्योतिरेवान्तः सूचमा वागनपायिनी ॥'

इति । सैव चार्थप्रतिपादनेच्छारूपविवक्षास्वरूपे मनसि विज्ञानरूपे वर्तते या मध्यमेति कथ्यते,इयं च नित्यं प्राणापानान्तरे सर्वसाधारणेकेति यदुक्तम्

 'आस्ते विज्ञानरूपत्वे स शब्दोऽत्र चिवक्षया |

 मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् ॥

इति । पुनरपि च सैव वक्त्रनाड्यां प्राप्ता कण्ठादिस्थानविभक्तककारादिवर्णासाधारणा वैखरीत्युच्यते सैव ग्रन्धरूपेति,इत्यतस्तस्यैतत्प्रसररूपत्वात् कथं तेन निर्णेतुं शक्यते । उक्तं च

 'स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।  ' वैखरी वाक् प्रयोक्तुणां प्राणवृत्तिनिबन्धना ॥'

'इति ।