पृष्ठम्:श्रीपरात्रिंशिका.pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
83
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


अपि पराभट्टारिकायाः प्रथमप्रसरत्वात्, उत्तर- स्यापि च मदीयस्य एतदेवानुत्तरं परमार्थः, उत्तरस्य त्रिशूलप्रेरणादिमयस्य यत् अनुत्तरं विश्रान्तिस्थानं किं तत्? इत्याह-यतः स्यात् अयं कौलिको विधिः-कौलिकः कुलाकुलात्मा प्राक् व्याख्यातो विधीयमानत्वात् विधिः म- हासृष्टिरूपो गर्भीकृतानन्तसृष्टयादिकोटिश- तो यस्मात्प्रसृत एतदेव तदनुत्तरं, यदुक्तम्


 १ यथालोकेन दीपस्य किरणैर्भास्करस्य वा।

 ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥'

इति । त्रिशूलेन लोलीभूतशक्तित्रितयेन य उत्तरः समावेशस्तस्य!

यथोक्तं

 'लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् ।

 यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः ॥'

इति।

 महासृष्टिरूपः-शुद्धविद्यारूपः


पं. १ क. पु. प्रसारत्वादिति पाठः ।

पं. ३ ख. पु० त्रिशूलपूरणादिमयस्य, ग• पु० त्रिशूलप्रेरणामयस्य इति पाठः।

पं० ८ ख० पु. प्रसृत एव तदनुत्तरमिति पाठः ।