पृष्ठम्:श्रीपरात्रिंशिका.pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
परात्रिंशिका


...............यतः सर्वं...............)

इति । तथाहि इदं विश्वं चिञ्चित्तप्राणदेह- सुखदुःखेन्द्रियभूतघटादिमयमेकस्यां वा प-. रस्यां परमेश्वर्यां भैरवसंविदि अविभागेनैव बोधात्मकेन रूपेण आस्ते, यद्यपि बोधात्म-

 'यस्मिन्सर्वं यतः सर्वे यः सवै सर्वतश्च यः ।

 सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥'

तत्र यत एकस्मात् कर्तुः सर्वमिदं कार्यजातं प्रभवतीति 'यतः सर्वम्' इत्येकस्य तत्वस्य सर्वकर्तृत्वं प्रतिपादितं, तथा 'यस्मिन् सर्वम्' इति सर्वज्ञत्वम् इदमत्यन्तभिन्नाभासमयं भावजातं संवेद्यमानतामात्रनिब- न्धनतत्तत्स्वात्मना सत् सुखादिसर्वावस्थानुगतैकसंवेदितृत्वमात्रस्व- भावे प्रकाशात्मनि यस्मिन् स्थितं नानात्वमेवेदमित्थं यद्वाशात् स्फुर- तीत्यर्थः, 'यःसर्वम्' इत्यनेन स्वेच्छामात्रव्यतिरिक्तोपादानरूपवस्त्व- न्तरनिरपेक्षत्वमस्योक्तम् , 'सर्वतश्च य' इत्यनेन सर्वस्मिन् वेद्ये वस्तुनि य एवैकः परिस्फुरति तेन नास्य स्वरूपविक्रियेत्यर्थः, 'यश्च सर्वमयो नित्यम्' इति कार्यानारम्भेऽपि सर्वात्मकत्वप्रतिपादनम्, इत्थमत्र ता- त्पर्यार्थः -सर्वमेकः सर्वज्ञः सर्वकर्ता निरुपादान: निरुपाधिर्नित्यं सर्वात्मकत्वेनावभासते, इति श्रीमद्राजानकरामकण्ठटीकायाम् ।

  चित् इति शून्यग्रमाता।

  ननु च सर्वमिदं प्रकाशरूपमेवान्यथा जगतोऽन्धताप्रसङ्गस्तत्किमिति उक्तं 'संविदि अभेदेनैव बोधात्मकेन रूपेणेति' अयमत्र भाव:- यद्यपि प्रकाशसत्तां विना न किञ्चित् प्रकाशते इति सत्यं तथापि पर- स्परं ते विच्छिन्ना एव, अनुत्तरस्वरूपे तु परस्परविच्छेदो नास्ति इति

अनुत्तरस्वमस्य।