पृष्ठम्:श्रीपरात्रिंशिका.pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


यत् 'ममेति' अविच्छिन्नचमत्कारांशोपारोहित्वं 'मम नीलं भातम्' इति तदेव नीलादिरूपत्व- मिति, तस्य ममेत्यस्य नीलाद्यनन्तसर्वभाव- हृदयस्य यत् व्योम यत्र तत् ममकारात्मकं विश्वं 'वीतं सम्यक् धृतम्, अत एव त्यक्त- भिन्ननिजरूपतया शून्यरूपं व्योम यत्र, तथा ममेत्यस्य भिन्नाभिन्नरूपपरापरसंविदात्मनो यत् हृदयं पर्यन्तप्रतिष्ठाधाम 'अहमिति' त- स्यापि व्योम संहाररूपकलनेन 'म ह अ' इति नरात्मकं लीनं विन्द्वात्मशक्तौ, म-इति कुण्ड- लिनी-ह-कलारूपायां प्रविश्य, परिपूर्णनिरर्गल- चमत्कारे सर्वाविच्छिन्ने अ-इत्यनुप्रविष्टं तथा- भवति, एतदेव मम हृद्वयोम, एवं यत इ-


 विशेषेण इतं गतं बीतम् ।


पं. ६ क० ग० पु०. म-ह-अ इति क्रमेण अ इति, इत्ति पाठः ।

पं १० निरात्मक नीलमिति पाठः ।

पं १२ ख. ग. पु० सर्वावच्छिन्ने इति पाठः ।