पृष्ठम्:श्रीपरात्रिंशिका.pdf/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
परात्रिंशिका


दं प्रस्मृतं यत्र च विश्रान्तं तदेव नित्यमना- वृतखभावं स्वयं प्रथमानम् अनपह्नवनीय- मनुत्तरम् । यथोक्तम्

 'यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् ।
 तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ॥’

इति । आवरकत्वेन निरोधकाभिमतोऽपि हि तदावरणादिस्वातन्त्र्येण प्रकाशमानो दृक्क्रि- यात्मक एव परमेश्वरः, यदित्ययं निपातः सर्वविभक्त्यर्थवृत्तिः अपरवाक्यीयसंबन्धौचित्यात्- विशेष स्थास्नुरत्र पञ्चम्यर्थे सप्तम्यर्थे च वर्तते। अयं हि ओञ्जस्येन अर्थः-यदेयं कौलिकः सृष्टिप्रसरः, यच्च मम हृद्व्योम्नि अवस्थितः तदेवानुत्तरम् । एवं तस्यैव प्रसरविश्रान्त्युभ-


  सूष्मार्थविवेकं विनापि ।

  यत्-यस्मात् ।


पं० २ क० पु० प्रथमानं ह्यपदव इति, ख० पु० प्रथममिति इति पाठः।

पं. ११ क० पु० आसमञ्जस्येनेति पाठः ।