पृष्ठम्:श्रीपरात्रिंशिका.pdf/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


यस्थानत्वं निरूप्य प्रसरक्रमस्वरूपं क्रियाश- क्तिस्पन्दविसर्गं निरूपयति 'कथयामि' इत्यादि, तदेव हि रूपम् अहं परानुत्तरात्मपरापरा- दिमयपश्यन्त्यादिप्रसरपरिपाट्याऽविच्छिन्नैक- तापरमार्थः, कथयामीति समुचितव्यपदेशं पराभट्टारिकोदयभागिवैखर्यन्तं वाक्यप्रबन्धं शास्त्रीयलौकिकादिबहुभेदं व्यक्तयामीति, तदुक्तम्

'...…सर्वतश्च यः'

इति । प्रथमपर्यन्तभुवि पराभट्टारिकात्मनि तत्प्रसरात्मनि च परापरादेवतावपुषि अनुत्तर- ध्रुवपदविजृम्भैव, तदाहुर्निजविवृतौ श्रीसो-


१ तथैव शिवदृष्टावपि

   'यदा तु तस्य चिद्धर्मविभवामोदजृम्भया ।'

इत्याद्युक्तम् । श्रीमदुत्पलदेवप्रभुपादैरपि

 'स्फारयस्यखिलमात्मना स्फुरन्
   विश्वमामृशसि रूपमामृशन् ।
  यस्वयं निजरसेन घूर्णसे
   तत्समुल्लसति भावमण्डलम् ॥'

इति ।


पं० ५ क० पु० अविच्छिन्नैकपरमार्थ इति पाठः ।