पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
परात्रिंशिका

मानन्दपादाः-कथयामि इति उच्चारयामि उत्कलिकात इति, तथाहमेव सर्वस्य अन्तश्चि- द्रूपेण कथयामीति, तदेवास्माभिः युक्त्युपदे- शसंस्कारैः निर्मलय्यत्दृदयङ्गमीकृतम्। स्वरूपं चास्य परमेश्वरस्य सद्य इति- 'य एव च पर- मेश्वरो भैरवात्माकुलानुत्तरध्रुवधामतया'-उक्तम् तदेवेदं सर्वं सत् कौलिकविधिरूपं, न- हि-प्रकाशविमर्शशुद्धभैरवस्वरूपातिरेकि किं- चित् भावानां सत्त्वं, सत्तासंबन्धार्थक्रियाका- रित्वादीनामपि सत्ताहेतुता पराभिमतानामपि सत्तायोगे तथात्वानुपपत्तेः सत्वान्तरार्थक्रिया. न्तरयोगे चानवस्थापत्तेः, प्रथमत एव तथा विमर्शजीवितप्रकाशमयत्वमेव सत्त्वं, तत् च स्वातन्त्र्यविमर्शसाराहंभावभरितमिति भैरव- रूपमेव । यद्वा सति सद्रूपे यस्यति यत्नं करोति क्रियाशक्तिप्राणत्वात् तत् सद्य इति


पं० ४ ख० पु० निर्दलप्प्रेति पाठः ।