पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

क्विपि नपुंसकनिर्देशः, सद्यदिति केचित् गु- रवः पठन्ति । तदुक्तं श्रीसिद्धसन्ताने

'प्रकाशमानाभासैव यद्भूतिस्तत्सदेव हि।'

इति । श्रीस्पन्देऽपि

....."तदस्ति परमार्थतः।'

इति। श्रीसोमानन्दपादैरपि

'यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः।'

इति स्वरूपमुक्तम् । तदुक्तं

'यः सर्वं

इति। अस्यैव क्रियाशक्तिप्रसरं निरूपयति 'कौ- लिकसिद्धिदम्' इति, कौलिकं यत् व्याख्यातं तस्य सिद्धिः तथात्वदार्ढ्यं तत् यतो भवति, तत्र हि परमार्थप्रमातरि सकलं कुलाकु- लादि तथा भवति यत्र प्रतीयमानं सर्व त- थात्वदायं भजते । तदुक्तं

""परात्परतरं त्रिकम् ।'


पं० १६ ख० पु. कुलारपरतरमिति पाठः ।