पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
परात्रिंशिका

इति । अन्यत्रापि

'वेदाच्छैवं ततो वाम ततो दक्षं ततः कुलम् ।
ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ।।'

इति ।श्रीनिशाचारेऽपि

'वाममार्गाभिषिक्तोऽपि दैशिका परतत्त्ववित् ।
संस्कार्यों भैरवे सोऽपि कुले कौले त्रिकेऽपि सः।।'

इति। श्रीसर्वाचारेऽपि

'वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् ।
क्रमाद्भैरवतन्त्रेषु पुनः संस्कारमहति ।'

इति । क्रमश्च एष एव, यथोक्तम्-एवं यत् सर्वलोकवेदसिद्धान्तवामदक्षिणकुलमतभूमिषु परमार्थप्रमातृ इति । यथोक्तम्

'यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः।'

इति। तदेवानुत्तरमेतत्सर्वं गर्भीकृत्योक्तं निजविवृतौ सोमानन्दपादैः, किंबहुना सर्वमेवा. नुत्तरमनुत्तरत्वात् इति । अयं तात्पर्यार्थः-


पं.१० ख० पु. क्रमस्येति पाठः ।