पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
परात्रिंशिका

इत्यादिना श्लोकेन शक्तिविषयः । तथा 'शृणु देवि' इत्यत्र प्रतिवचनग्रन्थे 'उत्तरस्याप्यनुत्त- रम इति, तत्रार्थः उत्तरं च शृणु अनुत्तरं च इ- ति। अत्र यदि एषात्रिकाOभिप्रायेण व्याख्या तत् नरविषयतृतीयप्रश्नप्रसङ्गः । अथ तु या- मलाभिप्रायेण तत्रापि न द्वे वस्तुनी शिवश- क्त्यात्मके यामलमुच्यते, येन[१] पृथक् प्रश्न- विषयतोपपत्तिः, अथशब्दार्थश्[२]च न संगच्छते- स हि सजातीयनिश्चयानन्तर्यवृत्तिः उत्तरस्व. रूपावधारणमन्तरेण च अनुत्तरविषयस्यैक- प्रश्नस्य अनुपपत्तिः, तथाहि[३] केषुचित् वृद्धपु-


पं. ५ ख० पु. यामलताभिप्रायेणेति, क. पु. यामलमताभ इ. ति पाठः ।

पं० १. क. पु. विषयस्यैव प्रश्नस्पति पाठः ।


  1. येनेति द्विवस्तुपृथक्स्वभावतया इत्यर्थः ।
  2. अथाद्या इत्यन्न वक्ष्यमाणः ।
  3. यदुक्तं तैः प्रतिवचनग्रन्थे 'उत्तरं च शृणु अनुत्तरं चेति' तन्निई- लयितुमाह 'उत्तरस्वरूपति' तदेव समर्थयति 'तथाहीत्यादिना'।