पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

स्तकेषु ईदृक् श्लोकान्तरं दृश्यते

'श्रुतं देव महाज्ञानं त्रिकाख्यं परमेश्वर ।
उत्तरं च तथा ज्ञानं खत्मसादावधारितम् ॥'

इति । तस्मात् श्रीसोमानन्दपादनिरूपित- व्याख्यानुसारेणैव यत् गुरवः समादिक्षन् त. देव सर्वस्य करोति शिवम् ।

इत्यसंस्कृतदुर्व्याख्यातामसोन्मूलनव्रतः[१]
पडर्धशासनापूतहृदम्बुजविकासकः!!
संस्त्यानानन्तपशिौघविलापकलसद्रुचिः[२][३]
दीप्तोऽभिनवगुप्तेन व्याख्याभानुः प्रकाशितः॥

एवं यतोऽयं कौलिको विधिः प्रभवति, यत्र च प्रतिष्ठापदवीं भजते, यन्मयं च इदं कौलिक, तदेवानुत्तरमित्युक्तम् । तत्र कस्तावत् कौलिको विधिः? कथं च अस्य प्रसरोऽनुत्तरात्?

कथं चात्रैव अस्य प्रतिष्ठा ? कथं च अनुत्तरैक-


  1. तामसं तमोपटलम् ।
  2. संस्त्यानः श्यानीभूतः।
  3. ३ सूर्यपक्षे पाशौध: पिशाचादिसमूहः ।