पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
परात्रिंशिका

रूपत्वं?[१] यच्चोक्तम्- उत्तरस्याप्यनुत्तरमिति, तत् सर्वं युक्त्यागमस्वसंवेदननिष्कर्षणतत्त्वावबो- धावाप्तविमर्शनिपुणान् शिष्यान् प्रति वितत्य निर्णिनीषुः भगवान् प्रस्तौति ग्रन्थान्तरम्, एतावद्दढोपदेशनिर्दलितभेदाभिमानवि- कल्पानल्पसंस्काराणां तु सर्वमेतावतैव 'अनुत्तरं कथम्' इत्यादिसार्धश्लोकयुगलनिगमितेन[२] प्रश्नेन 'शृणु देवि' इत्यादिना सार्धश्लोकनिर्णी- तेन चोत्तरेण, अनुत्तरपदप्राप्तिवशाविष्टजीव-

२ युक्तिरनुभवोपयोगी तर्कः, ततश्चान गुरुतः शास्त्रतः स्वत इति फलितम् ।


पं. ७ का पु. नियमितेनेति पाठः ।

पं० विश्वनाथ एंड सन्स के अधिपत्यस्थ कश्मीर प्रताप स्टीम प्रेस

श्रीनगर में छायागया।


  1. कौलिकविधेरिति योज्यम् ।
  2. निगमितेति-इत्थं मायापदे परप्रतिपत्त्यै प्रतिज्ञाहेतूदाह- रणोपनयनिगमनानि बोधहेतवः, तत्र साध्यवत्तया पक्षसाधनं प्रतिज्ञा। संदिग्धसाध्यवान् पक्ष: यथा-पर्वतोऽयं वतिमानिति, तत्रैव परप्रति- पत्त्यै लिङ्गप्रतिपादकं हेतुः यथा - धूमवत्त्वादिति, तत्रैव स्फुटप्रतिप- त्तिकारणमुदाहरणम् यथा-धूमवान्यः स बहिमान् इति महानसादौ व्या- प्तिदर्शनात् , पक्षे साधनोपसंहार उपनयः-तथा चायमिति, तत्रैव प- ते साध्योपसंहारो निगमनमिति यथा-तस्मात्तथेति, तत्र दृढशक्ति- पातवतां निगमनेनैव प्रतिपत्तिरिति किं तेषामन्येन, अन्येषां तर्केणैव प्रतिपत्तिरित वच्यमाणग्रन्थावतारः ।