पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

न्मुक्तभावानां कृतकृत्यता, अतस्तावन्मात्र एव दृढप्रतिपत्तिपवित्रीकृतैर्विश्रमणीयम् - इत्युगु- जाः फूत्कुर्मः । तदनुत्तरपरभैरवपदविमलदर्प- णान्तर्निविष्टकौलिकपदप्रविविक्तये ग्रन्थान्तर- मवतरति, इत्युक्तम् ॥ ४ ॥  तद्यथा

अथाद्यास्तिथयः सर्वे
 स्वरा बिन्द्ववसानगाः ।
तदन्तः कालयोगेन
 सोमसूर्यो प्रकीर्तितौ ॥५॥
एथिव्यादीनि तत्त्वानि
 पुरुषान्तानि पञ्चसु।
क्रमात्कादिषु वर्गेषु
 मकारान्तेषु सुव्रते ॥६॥
वाय्वग्निसलिलेन्द्राणां
 धारणानां चतुष्टयम् ।