पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
परात्रिंशिका

तदूर्ध्वं शादि विख्यातं
 पुरस्ताब्रह्मपञ्चकम् ॥७॥
अमूला तत्क्रमाज्ज्ञेया
 क्षान्ता सृष्टिरुदाहृता।
सर्वेषामेव मन्त्राणां
 विद्यानां च यशस्विनि ॥८॥
इयं योनिः समाख्याता
 सर्वतन्त्रेषु सर्वदा।

 तत्राकुलमनुत्तरमेव कौलिकं-सृष्टिरूपमिति निर्णीयते । अथ तत्सृष्टिरिति संवन्धः, तदेवानुत्तरं पदं -सृष्टिरित्यर्थः, यद्यपि च सृष्टावपि प्राक्तननयेन कालापेक्षि पौर्वापर्यं न स्यात् तथापि उपदेश्योपदेशभावलक्षणो भेदो यावत् स्वात्मनि स्वातन्त्र्यात् परमेश्वरेण भास्यते

तावत्पौर्वापर्यमपि-इति तदपेक्षया अथ-शब्दे-


पं० १० क. पु. कौलिकसष्टीति पाठः ।