पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

नानन्तर्यम् -अनन्तरमकुलमेव सृष्टिरूपमिति यावत्, न तु प्रश्नप्रतिज्ञाभ्यामानन्तर्यमथ-शब्देनोक्तम् - एकप्रघट्टकगतसजातीयप्रमेयापेक्षक्रमतात्पर्यप्रतीतिप्रवणत्वादस्य[१], अन्यथा तूष्णीभावादेरनन्तरमिदम् , इत्यपि सर्वत्र तत्प्रयोगावकाशः, अस्तु-क इव अत्र भवतः क्लेशः? इति चेत् - न कश्चित् - ऋते प्रतीत्यभावात्[२], यत्तु श्रीसोमानन्दपादाः

अकारः शिव इत्युक्तस्थकारः शक्तिरुच्यते ।'

इत्यागमप्रदर्शनेन अथ इत्येतावदेवानुत्तरम्[३] इति व्याचचक्षिरे, थकारहकारसमव्याप्तिकताभिप्रायेण

सर्वत्र प्रथमोल्लासे प्रसरदनन्तानन्त-


  1. अस्य-अथशब्दस्य ।
  2. प्रतीतिबाध एव क्लेश इत्यर्थः, तेन नापातक्लेशः, अपि तु मूलक्लेश एवेति भावः।
  3. तथा च सति अधिकरणसिद्धान्तनीया यत् पूर्वमुक्तं यद्यपि पौर्वापर्य न संभवति तथा तूपणाभावादेरपि इत्यादि' तच्छकैव काचि- नास्तीति । 'एकस्मिन्कार्य सिद्धे कार्यान्तराणि स्वयमेव सिद्यन्ति यन्त्र सोऽधिकरणसिद्धान्तः ।