पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
परात्रिंशिका

वस्तुसृष्टिशक्त्यभेदरूपत्वात् सर्वभूतस्थजीवन- रूपपरनादावलम्बनरूपत्वाच्च अथ-शब्दार्थस्य, तत् नास्माभिः वितत्य विवेचितम् ,-तादृशस्य आगमस्य यतो न साक्षाद्वयमभिज्ञाः, तैस्तु तथा-विधागमसाक्षात्कारिभिरनेकयुक्तिशतस- हिष्णुता सूत्रग्रन्थस्य सूत्रितैव, धूलिभेदप्रदर्शनमपि[१] तेनैवाभिप्रायेण[२] तैरितश्च[३] अमुतश्च विततम् । वयं तु तच्छासनपवित्रितास्तद्वन्थग्र- न्थिनिर्दलनाभिलषितस्वात्मपवित्रभावाः तैः निर्णीतेषु एवमादिषु अर्थेषु उदासीना एव । धूलिभेदादिना च कल्पितसामयिकलिप्यपेक्ष-[४]


पं. १ क. पु. भूतजीवेति पाठः ।
पं०३ ख. पु. वितत्येति नास्ति ।

पं० ६ ख• पु० सूत्रिता, एवमिति पाठः ।


  1. चूर्णिकार्थाभिधानम् ।
  2. तेनैव-समव्याप्तिकताभिप्रायेण ।
  3. तैः - सोमानन्दपादैः, इतः परात्रिंशिकालक्षणात्, अमुत इति तत्तदागमात् ।
  4. सामयिकः-सांकेतिकः ।