पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

णमपि भवेदपि कस्यचित्[१] उपायाय, न तु तत्सकलदेशकालगतशिष्यविषयम् - इति नास्माभिः वितत्य विपश्चितम् , एतदनुभवयुक्त्यनुप्रविष्टानां च तदकार्यकरं, स्वकल्पनाभिश्च सुकरम् , अवस्थितं च, अन्येषां च एतदुपदेशानभि [२]ज्ञानां तदुपदेशनमपि अकिंचित्करम् , इत्यलमनेन प्रकृतविघ्नविधायिना । प्रस्तुतमनुसरामः- 'अ' आद्यो येषां स्वराणां, यदि वा

थकारेण सुखोच्चारणार्थेन सह अथ् आद्यो येषा-


पं. ५ ख• पु० एतावत्तदुपदेशेति पाठः ।


  1. यतः सर्वदेशेषु विपरीतैव वर्णरचना अतो न सर्वस्य उपायाय । कालभेदश्च इत्थमेव बोध्यः ।
  2. २ इत्थमत्र विवेकः

     'निदाघतापतप्ताश्मपतिताब्बिन्दुवत्सदा ।
     अन्तःस्पर्शं नो करोति मूढानामुपदेशगीः ।।'

    तथा चोक्तमन्येन

     ज्ञेयत्वमप्युपगता हृदये न रोढुं
     शक्ताः प्रमूढमनसामुपदेशवाचः ।
     आर्दत्वमादधति किं नलिनीदलानां
     श्लिष्टा निरन्तरतयापि नभोऽम्बुधाराः ॥

    इति ।