पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
परात्रिंशिका

मिति आद्य-शब्दश्च अत्र न व्यवस्थामात्रेण, अपि सामीप्यादौ, अपि तु आदौ भव आद्यः, तथापि अमीषां वर्णानां परावाग्भूमिरियमिह निर्णीयते, यत्रैव एषामसामयिकं नित्यमकृत्रिमं संविन्मयमेव रूपं, संविन्मये च वपुषि सर्वस- र्वात्मकता सततोदितैव, सा च परमेश्वरी परा- भट्टारिका तथाविधनिरतिशयाभेदभागिन्यपि पश्यन्त्यादिकाः परापराभट्टारिकादिस्फाररूपा अन्तःकृत्य तत्तदनन्तवैचित्र्यगर्भमयी, नहि तत्र ‘यन्नास्ति तत् क्वाप्यस्ति इति' न्याय्यम् , परामृशत च प्रथमां प्रतिभाभिधानां संकोच- कलङ्ककालुष्यलेशशून्यां भगवतीं संविदम् । तथाहि - यत्किंचित् चरमचरं च तत् पारमा- र्थिकेन अनपायिना रूपेण वीर्यमात्रसारात्मना तदुद्भविष्यदीषदस्फुटतमेषदस्फुटतरेषदस्फु- टादिवस्तुशतमृष्टिकालोपलक्ष्यमाणतत्तदनन्त-

१ मयूराण्डरसन्यायेन परा, वटधानिकान्यायेन पश्यन्ती, मापश-

मिकाम्यायेन मध्यमा, ततः परं वैखरी ।