पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

वैचित्र्यप्रथोन्नीयमानतथाभावेन संविदि भगव- ड्रैरवभट्टारिकात्मनि तिष्ठत्येव, तथावधानाति- शयरूडैः सहसैव सर्वज्ञताभूमिरसंकुचितपर- मार्था अकृत्रिमतद्रूपा अधिशय्यते एव, परा- नुग्रहपवित्रितैरभ्यासक्रमशाणनिघर्षनिष्पेषित- तदप्रत्ययरूपकम्पाद्यनन्तापरपर्यायविचिकित्सा- मलैः सविचिकित्सैरपि प्रतिभातकियन्मात्रव- स्तुदत्तसंकोचा न तु कृत्रिमा । यदाहुः श्रीक- ल्लटपादाः

'तुटिपाते सर्वज्ञत्वसर्वकर्तृत्वलाभः ।'

इति । एवमेष स्वप्रकाशैकरूपोऽपि अर्थो यु-

१ अग्रायं भावः । 'संविन्निष्टा विषयव्यवस्थितयः' इति सिद्धान्तो- क्तिः, तच्च न भिन्नरूपप्रमात्मकसंविन्मान्नविश्रान्त्या सिद्धयत्ति अपि तु तत्तद्विभिन्ननिश्चयादिरूपप्रमात्मद्वारेण अमी भावा यदि चैकस्मिन्नेव अइ- मिति स्वरूपे तिष्ठन्ति, अन्यथा अर्थानां जडानां तज्ज्ञानानां तद्विकल्पानां तन्निश्चयानां देशकालक्रमिणां स्वरूपमात्रप्रतिष्टानां न कश्चित् समन्वयः स्यात् । उक्तं चेश्वरप्रत्यभिज्ञायाम्

'तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि ।
प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ॥'