पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
परात्रिंशिका


तथा

देशकालक्रमजुषामर्थानां स्वसमापिनाम् ।
सकृदाभाससाध्योऽसावन्यथा कः समन्वयः ।।

इति । तथा

'इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ ।
समलो विमलो वापि व्यवहारोऽनुभूयते ॥'

इति, तदेतदुक्तं तथावधानेति । अनेनैवाभिप्रायेण शिवोपनिषदि

'ग्राह्यग्राहकसंचित्तिः सामान्या सर्वदेहिनाम् ।
योगिनां तु विशेषोऽयं संबन्धे सावधानता ॥'

इति । २ प्रतिभातेति, अयमत्र भावः- इह नीलं गृह्णतः प्राणस्तुटिषोडश- कात्मा वेद्यावेशपर्यन्तमुदेति, तन्न आद्या तुटिरविभागैकरूपा, द्वितीया ग्रा- हकोल्लासरूपा, अन्त्या तु ग्राह्याभिन्ना तन्मयी, उपान्त्या तु स्फुटीभूतग्राह- करूपा, मध्यं यद्द्वादशकं तस्यार्धं निर्विकल्पस्वभावं विकल्पाच्छादकं, तत्र स्वरूपेणैका आच्छादनीये विकल्पे पञ्चकत्वमुन्मिमिषिषा उन्मिपत्ता, सा चेयं स्फुटक्रियारूपत्वात्तुटिद्वयात्मिका स्पन्दनस्यैकक्षणरूपत्वाभावात् उ- न्मिपितता स्वकार्यकर्तृत्वं च इत्येवमाच्छादनीयविषयपाञ्चविध्यात्स्वरूपाच्च षट्क्षणा निर्विकल्पकाः, ततोऽपि निर्विकल्पस्य ध्वंसमानता, ध्वंसः विक- ल्पस्य उन्मिमिपिषा, जन्मिपत्ता तुटिद्वयास्मिका उन्मिपितता च इति षट् तुटयः, स्वकार्यकर्तृता तु ग्राहकरूपता इत्युक्तं ' न सा भूयो गण्यते' इति, तत्र विकल्पन्यूनत्वे तुटिन्यूनता, एवं स्थिते यावत् स्फुटेदन्तात्मनो भेदस्य न्यूनता तावद्द्वयं द्वयं हसति यावत् द्वितुटिकः शिवावेशः, तत्र आद्या तुटि: सर्वतः पूर्णा, द्वितीया सर्वज्ञानकरणाविष्टा अभ्यस्यमाना सर्वज्ञत्वसर्वकर्तृत्वाय

कल्पते-न त्वाद्या, तदेतद्भट्टकल्लटेन 'तुटिपात' इति आम्नातम् -

तुटेराद्यायाः पातोऽपचयोऽपरा तुटिर्द्वितीयेत्यर्थः ।