पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

क्त्या प्रदर्श्यते - यत् यत् स्वसामार्थ्योद्भूतोत्त- रकालिकार्थक्रियायोग्यतादिवशनिःशेष्यमाण- सत्यतावशावाप्ताविचलसंवादं विरोधावभासि संमतक्रमिकविकल्प्यमाननीलादिनिष्टविकल्प- पूर्वभावि निर्विकल्पसंविद्रूपं तत्तद्विकल्पनीयवि- रुद्धाभिमतनीलपीताद्याभासाविभागि भवति, यथा चित्रज्ञानशिखरस्थसंविन्मेचकवोधादि, यत्तु तद्विरुद्धरूपनीलपीताद्याभासाविभक्तं न भवति तत्तदनन्तस्वसामोद्भूतनीलपीताद्या-


१ यथा चित्रज्ञाने न तावञ्चित्रं रूपं न भासते- संवित्तिविरोधात्, जडस्य च प्रकाशायोगः, तेनेदं ज्ञानात्मकमेव रूपं, न च आकारभेदेन ज्ञानभेदः-चित्ररूपस्यैकस्य आकारभेदाभावात्, यथा नीलस्यैको नीलस्व- भाव आकारः तथा वैचित्र्यस्यैकस्य चित्रस्वभाव एवाकारः, तस्मिश्चात्मभूते ज्ञानं प्रवर्तमानं कृत्स्न एव प्रवर्तते यदि वा न प्रवर्तत एव न तु भागेन प्रवर्तते तस्य निर्भागत्वात, ये त्वमी भागाः परस्परविविक्ताः प्रतिभान्ति न ते चित्रं रूपमिति भावः । शिखरस्थस्य हि सत्यपि गृहादिवेद्यभेदे एक एव नगरावभासः स्यात् । मेचकबोधो निर्विकल्पकनीलादिज्ञानं तत्राप्यविभाग एवेत्यर्थः ।


पं० १ क० पु० सामर्थ्याद्भूतेति पाठः ।

14